Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 74
________________ प्रमाणपरीक्षा। ततः प्रत्यक्षमनुमानमिति द्वे एव प्रमाणे प्रमेयद्वैविध्यात् । न ह्याभ्यामर्थ परिछिद्य प्रवर्तमानोऽर्थ क्रियायां विसंवाद्यत इति प्रमाणसंख्यानियमं सौगताः प्रतिपद्यते तेषामागमोपमानादीनां प्रमाणभेदानामसंग्रह एव तेषां प्रत्यक्षानुमानयोरंतर्भावायतुमशक्तेः । स्यान्मतिरेषा भवतां तदर्थस्य द्वैविध्यात् द्वयोरंतर्भावः स्यात् । द्विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च । तत्र प्रत्यक्षविषयः साक्षास्क्रियमाणः प्रत्यक्षः । परोक्षः पुनरसाक्षात्परिच्छिद्यमानोऽनुमेयत्वादनुमानविषयः स हि पदार्थांतरात्साक्षाक्रियमाणात प्रतिपद्यते तच्च पदार्थांतरं तेन परोक्षेणार्थेन सबद्धं प्रत्याययितुं समर्थ नासंबद्धं गवादेरप्यश्वादेः प्रतीतिप्रसंगात् । संबद्धं चार्थांतरं लिंगमेव शब्दादि तजनितं च ज्ञानमनुमानमेव ततो न परोक्षेऽर्थेऽनुमानादन्यत्प्रमाणमस्ति शब्दोपमानादीनामपि तथानुमानत्वसिद्धेः । अन्यथा ततोऽर्थप्रतिपत्तौ अतिप्रसंगात् इति तदेतदपि न परीक्षाक्षम प्रत्यक्षस्यापि तथानुमानत्वप्रसंगात् । प्रत्यक्षमपि हि स्वविषये संबद्धं तत्प्रत्यायनसमर्थ । तत्रासंबद्धस्यापि तत्प्रत्यायनसामर्थ्य सर्वप्रत्यक्षं सर्वस्य नुः सर्वार्थप्रत्यायनसमर्थं स्यादिति कथमतिप्रसंगो न स्यात् ? । यदि पुनः संबंधाधीनत्वाविशेषेऽपि प्रत्यक्षपरोक्षार्थ प्रतिपत्तेः साक्षादसाक्षात्प्रतिभासभेदात् भेदोऽभ्युपगम्यते प्रमाणांतरत्वेन तदेंद्रियस्वसंवेदनमानसयोगिप्रत्यक्षाणामपि प्रमाणांतरत्वानुषंगः प्रतिभासभेदाविशेषात् । न हि यादृशः प्रतिभासो योगिप्रत्यक्षस्य विशदतमस्तादृशोऽक्षज्ञानस्यास्ति स्वसंवेदनस्य मनोविज्ञानस्य वा ? यथाभूतश्च स्वसंवेदनप्रत्यक्षांतर्मुखो वि. शदतरः न तथाभूतोऽक्षज्ञानस्य । यादृशश्चाक्षज्ञानस्य बहिर्मुखः स्फुट: प्रतिभासो न तादृशो मनोविज्ञानस्येति कथं प्रमाणांतरता न भवेत् ? अथ प्रतिभासविशेषेऽपि तच्चतुर्विधमपि प्रत्यक्षमेव न प्रमाणांतरं तर्हि प्रत्यक्षानुमानयोः प्रतिभासभेदेपि स्वावषयसबंधावशेषात्व प्रमाणांतरत्वं माभूत् । यदि पुनः स्वविषयसंबद्धत्वाविशेषेऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात् प्रमाणांतरत्वमुररीक्रियते तदा शाब्दोपमानादीनामपि तत एव प्रमाणांतरत्वमुररीक्रियतां । यथैव हि अक्षादिसामग्रीतः प्रत्यक्षं, लिंगसामग्रीतोऽनुमानं प्रभवतीति तयोः सामिग्रीभेदः । तथागमः शब्दसामिग्रीतः प्रभवति । उपमानं सादृश्यसामग्रीतः । अर्थापत्तिश्च परोक्षार्थाविनाभूतार्थमात्रसामग्रयाः । प्रतिषेध्याधारवस्तुग्रहणप्रतिषेध्यस्मरणसामग्रयाश्चाभाव इति प्रसिद्धः शाब्दादीनामपि सामग्रीभेदः । तत एवाक्षज्ञानादिप्रत्यक्षचतुष्टयस्य प्रभेदप्रसिद्धेः नहि तस्यार्थभेदोऽस्ति साक्षाक्रियमाणस्यार्थस्याविशेषात् तद्वलिंगशब्दासामग्रीभेदास्परोक्षार्थविषयत्वाविशेषेप्यनुमानागमादीनां भेदप्रसिद्धिरिति नानुमानेऽतर्भावः संभवति । तथा साध्यसाधनसंबंधव्याप्तिप्रतिपत्तौ न प्रत्यक्ष समर्थं । यावान् कश्चिद्भूमः स सर्वः कालांतरे देशांतरे च पावकजन्मा, अन्यजन्मा वा न भवति इत्येतावतो व्यापारान् कर्तुमसमर्थत्वात् । सन्निहितार्थमात्रादुत्पत्तेरविचारकत्वात योगिप्रत्यक्षं तत्र समर्थमिति चेत् न देशकालयोगिप्रत्यक्षद्वयानतिक्रमात् । देशयोगिनः प्रत्यक्ष व्याप्तिप्रतिपत्तौ समर्थमित्ययुक्तं तत्रानुमानवैयर्थ्यात् । न हि योगिप्रत्यक्षेण साक्षात्कृतेषु साध्यसाधनविशेषेषु अशेषेषु फलवदनुमान । अथ सकलयोगिप्रत्यक्षेण व्याप्तिप्रतिपत्तावदोष इति चेन्न उक्तदोषस्यात्रापि तदवस्थत्वात् । परार्थफलवदनुमानमिति चेत् ? न तस्य स्वार्थानुमानपूर्वकत्वात् । स्वार्थानुमानाभावे च योगिनः कथं परार्थानुमानं नाम । यदि पुनः सकलयोगिनः परानुग्रहाय प्रवृत्तत्वात् परानुग्रहस्य च शब्दात्मकपरार्थानमानमंतरेण कर्तुमशक्तेः परार्थानुमानासद्धिः, तस्याश्च स्वार्थानुमानासंभवेऽनुत्पद्यमानत्वात स्वार्थानुमानसिद्धिरपि परप्रतिपादनप्रवृत्तस्य संभाव्यत एवेति मतं तदा स योगी स्वार्थानुमाने चतरार्यसत्यानि निश्चित्य परार्थानुमानेन परं प्रतिपादयन् ग्रहीतव्याप्तिकमगृहातव्याप्तिकं वा प्रतिपादयेत् ? यदि गृहीतव्याप्तिकं तदा कुतस्तेन गृहीता व्याप्तिः ? न तावादीद्रयस्वसंवेदनमनोविज्ञानस्तेषां तदविषयत्वात् । योगिप्रत्यक्षेण गृह्यते व्याप्तिः परेण तस्यापि देशयोगित्वात् इति चेत् तर्हि यावत्सु साध्यसाधनभेदेषु योगिप्रत्यक्षं देशयोगिनस्तावत्सु व्यर्थमनुमानं स्पष्टं प्रतिभातेश्वपि अनुमाने सकलयोगिनः सर्वत्रानमानप्रसंगात् । समारोपव्यवच्छेदार्थमपि न तत्रानुमानं योगिप्रत्यक्षविषये समारोपानवकाशात सगतप्रत्यक्षविषयवत् । ततो न गृहीतव्याप्तिकं परं सकलयोगी प्रतिपादयितुमर्हति । नाप्यगृहीतव्याप्तिकं

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90