Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 76
________________ प्रमाणपरीक्षा। त्संबंधसिद्धिः तदोहांतरस्यापि स्वविषयसबंधसिद्धिपूर्वकत्वात् तस्याश्चापरोहनिबंधनत्वात् सैवानवस्था । प्रमाणांतरात्तत्सिद्धौ च स एव पर्यनुयोगः परापरप्रमाणांतरपरिकल्पनानुषंगात केयं प्रमाणसंख्या व्यवतिष्ठतेति केचित् तेषामपि प्रत्यक्षं स्वविषयं प्रतिबोधयत् तत्संबंधश्च नानुमानादेः सिद्ध्यति तस्य तदविषयत्वात् । प्रत्यक्षांतरात्तसिद्धौ तत्रापि प्रकृतपर्यनुयोगानिवृत्तेः कथमनवस्था न स्यात् यतः प्रत्यक्षं प्रमाणमभ्युपगमनीयमिति प्रतिपद्यामहे । __ स्यान्मतिरेषा प्रत्यक्षं स्वविषयसंबंधावबोधनिबंधनं प्रामाण्यमात्मसात्कुरुते तस्य स्वविषये स्वयोग्यतावलादेव प्रमाणत्वव्यवस्थितेः अन्यथा कचिदपूर्वार्थग्राहिणः प्रत्यक्षस्याप्रमाणत्वानुषंगात् इति सापि न साधीयसी तथोहस्यापि स्वयोग्यताविशेषसामर्थ्यादेव स्वविषयप्रत्यायनसिद्धर्भवदुद्भावितदूषणवैयर्थ्यव्यवस्थानात् । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञानावरणवीर्यातरायक्षयोपशमविशेष एवोहस्यापि प्रतिपद्यते सकलबाधकवैधुर्यात् । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादिसामिग्री योग्यतायाः सहकारिणी बहिरंगनिमित्तत्वात् तथोहस्यापि समुद्भूतो भूयः प्रत्यक्षानुपलंभसामिग्रीबहिरंगनिमितभूतानुमन्यते तदन्वयव्यतिरेकानुविधायित्वादूहस्येति सर्वनिरवद्यसिद्ध चानुमानप्रमाणान्यथानुपपत्त्या तर्कस्य प्रमाणत्वे-प्रत्याभज्ञानं प्रमाणं तर्कप्रमाणत्वान्यथानुपपत्तेः न ह्यप्रत्यभिज्ञाने विषये तर्कः प्रवर्तते अतिप्रसंगात्। नच गृहीतग्रहणात्प्रत्यभिज्ञानस्याप्रमाणत्वं शंकनीयं तद्विषयस्यास्मर्यमाणदृश्यमानपर्यायव्याप्येकद्रव्यस्य स्मरणप्रत्यक्षागोचरत्वात् अपूर्वार्थग्राहित्वासिद्धेः । नचेदं प्रत्यक्षेऽतर्भवति प्रत्यक्षस्य वर्तमानपर्यायविषयत्वात् । नाप्यनुमाने लिंगानपेक्षत्वात् । न शाब्दे शब्द निरपेक्षत्वात् । नोपमाने सादृश्यमंतरेणापि भावात् । नार्थापत्तौ प्रत्यक्षादिप्रमाणषट्कविज्ञातार्थप्रतिपत्तिमंतरेणापि प्रादुर्भावात् । नाभावे निषेध्याधारवस्तुग्रहणेन निषेध्यस्मरणेन च विनैवोत्पादादिति सर्वेषामेकद्वित्रिचतुःपंचषद्प्रमाणसंख्यानियमं विघटयति । एतेन स्मृतिः प्रमाणांतरमुक्तं तस्याश्च प्रत्यक्षादिष्वंतर्भावयितुमशक्तेः । न चासावप्रमाणमेव संवादकत्वात् कथंचिदपूर्वार्थग्राहित्वात् बाधाबर्जितत्वाच्चानुमानवदिति । येषां तु स्मरणमप्रमाणं तेषां पूर्वप्रतिपन्नस्य साध्यसाधनसबंधस्य वाच्यवाचकसंबंधस्य च स्मरणसामर्थ्यादव्यवस्थितेः कुतोऽनुमानं शाब्दं वा प्रमागं सिद्ध्येत् । तदप्रसिद्धौ च न संवादकत्वासंवादकत्वाभ्यां प्रत्यक्षतदाभासव्यवस्थितिरिति सकलप्रमाणविलोपापत्तिः ततः प्रमाणव्यवस्थामभ्यनुजानता स्मृतिरपि प्रमाणयितव्या इति न परेषां संख्यानियमः सिद्ध्येत् । स्याद्वादिनां तु संक्षेपात्प्रत्यक्षपरोक्षविकल्पात् प्रमाणद्वयं सिद्धत्येव तत्र सकलप्रमाणभेदानां संग्रहादिति सूक्तं । किं पुनः प्रत्यक्षमित्युच्यते विशदज्ञानात्मकं प्रत्यक्षं प्रत्यक्षत्वात् यत्तु न विशदज्ञानात्मकं तन्न प्रत्यक्षं यथानुमानादिज्ञानं प्रत्यक्षं च विवादाध्यासितं तस्माद्विशदज्ञानात्मकं । न तावदत्राप्रसिद्धो धर्मी प्रत्यक्षर्मिणि केवलप्रत्यक्षवादिनामविपतिपत्तेः । शून्यसंवेदनाद्वैतवादिनामपि स्वरूपप्रतिभासनस्य प्रत्यक्षस्याभीष्टेः । प्रत्यक्षत्वस्य हेतोरसिद्धतापि अनेन समुत्सारिता प्रत्यक्षमिच्छद्भिः प्रत्यक्षत्वस्य तद्धर्मस्य स्वयमिष्टत्वात् । प्रतिज्ञार्थंकदेशासिद्धत्वं साधनस्य स्यादिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा यस्यासिद्धत्वं शक्येत ? धर्मधर्मिससुदायः प्रतिज्ञा तदेकदेशो धर्मी हेतुर्यथा नश्वरः शब्दो शब्दत्वादिति तथा साध्यधर्मः प्रतिज्ञैकदेशो यथा नश्वरः शब्दो नश्वरत्वात् सोय द्विविधो प्रतिज्ञार्थंकदेशासिद्धा हेतु: स्यादिति चेत् ? न धर्मिणो हेतुत्वे कस्य चिदसिद्धतानुपपत्तेः । यथैव हि प्रत्यक्षप्रयोगकाले वादिप्रतिवादि प्रसिद्धो धर्मी तथा तस्य हेतुत्ववचनेऽपि नासिद्धिः । साध्यधर्मस्तु हेतुत्वेनोपादीयमानो न प्रतिज्ञातार्थंकदेशत्वेनासिद्धो धर्मिणोऽप्यसिद्धिप्रसंगात् । किं तर्हि ? स्वरूपण वासिद्ध इति न प्रतिज्ञार्थेकदेशासिद्धो नाम हेत्वाभासः संभवतीति कथं प्रकृतहेतौ प्रतिज्ञार्थंकदेशासिद्धत्वं समुद्भावयन् भावितानुमानस्वभावः । धर्मिणो हेतुत्वेऽनन्वयप्रसंग इति चेत् न विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतां दोषासंभवात् । प्रत्यक्ष रूपं धर्मी प्रत्यक्षसामान्य हेतः स कथमनन्वयः स्यात सकलप्रत्यक्षविशेषस्य व्यापित्वात् । दृष्टांते कचिदभावात् अनन्वय इति चत् न सर्वे भावाः क्षणिकाः सत्त्वात् इत्यादेरपि हेतोरनन्वयत्वप्रसक्तेः ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90