Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
प्रमाणपरीक्षा ।
कवादिनः जागृद्दशाभाविनः समीचीनविज्ञानस्यार्थव्यवसायात्मकत्वप्रतीतेः । तस्यार्थाव्यवसायात्मकत्वेततोऽर्थे प्रवृत्त्यभावप्रसंगात् । प्रतीयते च सम्यग्ज्ञानादर्थे प्रवृत्तिरविसंवादिनी तस्मादर्थव्यवसायात्मकं तदर्थे प्रवृत्त्यन्यथानुपपत्तेः । मिथ्याज्ञानादप्यर्थे प्रवृत्तिदर्शनादनेकांत: ? इति चेन्न तस्याः प्रवृत्त्याभासत्वात्, व्यवसितार्थप्राप्तिनिमित्तत्वाभावात् । व्यवसितमर्थे प्रापयितुं समर्था हि सम्यक् प्रवृत्तिः सा च मिथ्याज्ञानानोपपद्यत इति न व्यभिचारः । यच्चार्थ व्यवसायात्मकत्वनिराकरणप्रवणमनुमानं तत्स्वार्थे व्यवस्यति वा नवा ? प्रथमविकल्पे तेनैवानकांतिकं साधनमापद्येत तस्य ज्ञानत्वे स्वव्यवसायात्मकत्वेऽपि स्वसाध्यार्थब्यवसायात्मकत्वसिद्धेः । द्वितीयविकल्पेऽपि नातोऽनुमानादिष्टसिद्धिः स्वसाध्यार्थ व्यवसायात्मकत्वात् अनुमानाभासवत् । ततः किं बहुना सर्वस्य किंचिदिष्टं साधयतः स्वयमानष्टं वा दूषयतः कुतश्चित्प्रमाणात् तस्यार्थव्यवसायात्मकत्वाभ्यनुज्ञानमवश्यंभावि तस्यार्थाव्यवसायात्मकत्वे स्वेष्टानिष्टसाधनदूषणानुपपत्तेः । परप्रसिद्ध्यार्थव्यवसायिनः प्रमाणस्याभ्यनुज्ञानाददोष इति चेत् ? तर्हि परं प्रतिपाद्यसे वा न वा ? यदि न प्रतिपाद्यसे कथं परप्रसिद्ध्या कचिदभ्यनुज्ञानं १ तं न प्रतिपाद्यसे तत्प्रसिद्ध्या च किंचिदभ्यनुजानासीति कथमनुन्मत्तः ? । अथ परं प्रतिपाद्यसे तर्हि यतः प्रमाणात्तत्प्रतिपत्तिः तत्स्वकीयार्थव्यवसायात्मकं सिद्धं तस्याव्यसायात्मकत्वे तेन परप्रतिपत्तेरयोगात् । यदि पुनः पराभ्युपगमांतरात्परप्रतिपत्तिरिति मतं तदाप्यनिवृत्तः पर्यनुयोगः तस्यापि पराभ्युपगमांतरस्य प्रतिपत्त्यप्रतिपत्तिपूर्वकत्वे पूर्वोक्तदूषणानतिक्रमात् ।
५७
स्यान्मतं न बहिरर्थाः परमार्थतः संति तत्प्रत्ययानां निरालंबनत्वात् स्वप्नप्रत्ययवत् सतानांतरविज्ञानानामपि असत्त्वात् । तत्र स्वरूपमात्रव्यवसायात्मकमेव विज्ञानमिति तदप्यसारं तथाहि - सर्वप्रत्ययानां निरालंबनत्वं न तावत्प्रत्यक्षतः सिद्ध्यति तस्य तद्विषयत्वात् । विवादापन्नाः प्रत्यया निरालंबना एव प्रत्ययत्वात् स्वजेंद्रजालादिवदिति अनुमानान्निरालंबनत्वसिद्धिरित्यपि मिथ्या स्वसंतानप्रत्ययेन व्यभिचारात् । तस्यापि संतानांतर प्रत्ययवत्पक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालंबनं निरालंबनं वा ? प्रथमपक्षे तेनैवानैकांतिकत्वं प्रत्ययत्वं । द्वितीयकल्पनायां नातो निरालंबनत्वसिद्धिः । परब्रह्मस्वरूपसिद्धिरेव सकलभेदप्रत्ययानां निरालंबनत्वसिद्धिः ? इत्यपि न व्यवतिष्ठते परब्रह्मण एवाप्रसिद्धेः । तद्धि स्वतो वा सिद्ध्येत् परतो वा ? न तावत्स्वत एव विप्रतिपत्त्यभावप्रसंगात् । परतश्वेदनुमानादागमाद्वा ? यद्यनुमानात् किमत्रानुमानमित्यभिधीयतां । विवादापन्नोऽर्थः प्रतिभासांतः प्रविष्ट एव प्रतिभासमानत्वात् । यो यः प्रतिभासमानः स स प्रतिभासांतः प्रविष्ट एव दृष्टः यथा प्रतिभासस्यात्मा प्रतिभासमानश्च सकलोऽर्थश्चेतनाचेतनात्मको विवादापन्नः तस्मात्प्रतिभासांतःप्रविष्ठ एवेत्यनुमानं न सम्यक् धर्मि- हेतु दृष्टांतानां प्रतिभासांतः प्रविष्टत्वे साध्यांतः पातित्वेन अनुमानोत्थानायोगात् । प्रतिभासांतः प्रविष्टत्वाभावे तैरेवेति हेतोर्व्यभिचारात् । यदि पुनरनाद्यवि - द्यावासनावलाद्धर्मि-हेतु-दृष्टांता: प्रतिभासबहिर्भूता इव निश्चीयते प्रतिपाद्यप्रतिपादकसभ्यसभापतिजनवत्। ततोऽनुमानमपि संभवत्येव सकलानाद्यविद्याविलासविलये तु प्रतिभासांत ः प्रविष्टमाखलं प्रतिभासमेवेति विप्रतिपत्त्यसंभवात् । प्रतिपाद्यप्रतिपादकभावाभावात् साध्यसाधनभावानुपपत्तेर्न किंचिदनुमानोपन्यासफलं । स्वयमनुभूयमाने परब्रह्मणि प्रतिभासात्मनि देशकालाकारावीच्छन्नस्वरूपे निर्व्यभिचारे सकलकालावस्थाव्यापि - नि- अनुमानाप्रयोगात् इति समभिधीयते तदा साप्यनाद्यविद्या यदि प्रतिभासांतः प्रविष्टा तदाविद्यैव कथमसंतं धर्मिदृष्टांतादिभेदमुपदर्शयेत् । अथ प्रतिभासबहिर्भूतास्तदा साऽप्रतिभासमाना प्रतिभासमाना वा ? न तावदप्रतिभासमाना भेदे प्रतिभासरूपत्वात् तस्याः । प्रतिभासमाना चेत् तयैव हेतोर्व्यभिचारः प्रतिभासबहिर्भूतत्वेऽपि तस्याः प्रतिभासमानत्वात् ।
स्यादाकूतं - -- न प्रतिभासमाना नाप्रतिभासमाना न प्रतिभासबहिर्भूता नापि प्रतिभासांतः प्रविष्टा नैका नचानेका न नित्या नाप्यनित्या न व्यभिचारिणी नाप्यव्यभिचारिणी सर्वथा विचार्यमाणायोगात् । सकलविचारातिक्रांतस्वरूपैव रूपांतराभावात् अविद्याया नीरूपतालक्षणत्वात् इति । तदेतदप्यविद्याविजृंभितमेव तथाविधनीरूपतास्वभावायाः केन चिदविद्यायाः कथंचिदप्रतिभासमानायाः वक्तुमशक्तेः । प्रतिमासमानायास्तु तथावचने कथमसौ सर्वथा नीरूपा स्यात् : येन स्वरूपेण यः प्रतिभासते तस्यैव
८
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90