Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 64
________________ प्रमाणपरीक्षा। ऽभ्युपगमनीयत्वात् इति ? तदपि फल्गुप्रायं भूयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयादी सुतरां सद्भावात् । पुनपुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्धत्वात् तत्रैव विवदात् । क्षणिकाक्षणिकविचारणायां क्षणिकप्रकरणस्यापि भावात् । बुद्धिपाटवं तु नीलादौ क्षणक्षयादौ च समानं तद्दर्शनस्यानंशत्वात् । तत्र पाटव:पाटवयोमैदे तद्बद्धरपि भेदापत्तेः, विरुद्धधर्माध्यासात् । तथाविधतद्वासनाख्यकर्मवशाबुद्धेः पटवापाटवे स्यातां, इत्यप्यनेनापास्तं तत्कर्मसद्भावयोरपि विरुद्धधर्मयोरनंशबुद्धावेकस्यामसंभवात् । यत्पुनरर्थित्वं जिज्ञासितत्वं तत्क्षणिकवादिनः क्षणिकत्वेऽस्त्येव नीलादिवत् । यत्पुनरभिलषितृत्वमर्थित्वं तन्न व्यवसायजवननिबंधनं कचिदनभिलषितेऽपि वस्तुनि कस्य चिदुदासीनस्य स्मरणप्रतीतेः-इति नाभ्यासादिभ्यः कचिदेव संस्कारजननं-अनंशज्ञानज्ञेयवादिनो घटते । परस्य तु बहिरंतरनेकात्मकतत्त्ववादिनो न किंचिदनुपपन्नं सर्वथैकत्र व्यवसायाव्यवसाययोः, अवायानवायाख्ययोः, संस्कारासंस्कारयोः, धारणेतराभिधानयोः, स्मरणास्मरणयोश्चानभ्युपगमात् । तद्भेदात्कथंचिद्बोधबोध्ययोर्भेदप्रसिद्धः । सौगतस्यापि व्यावृत्तिभेदाढ़ेदोपगमाददोषोयं तथाहि-नीलत्वमनीलत्वव्यावृत्तिः,क्षाणिकत्वमक्षणिकत्वव्यावृत्तिरुच्यते तत्रानीलव्यावृत्तौ नीलव्यवसायस्तद्वासनाप्रबोधादुत्पन्नो न पुनरक्षणिकव्यावृत्तौ क्षणिकव्यवसायस्तत्र तद्वासनाप्रबोधाभावात् । न चानयोावृत्त्योरभेदः संभवति व्यावय॑मानयोरभेदप्रसंगात् । न च तद्भेदादस्तुनो भेदः तस्य निरंशत्वात् अन्यथा अनवस्थाप्रसंगात् इति परे मन्यते तेपि न सत्यवादिनः स्वभावभेदाभावे वस्तुनो व्यावृत्तिभेदासंभवात् । नीलस्वलक्षणं हि येन स्वभावेनानीलाव्यावृत्तं तैनैव यद्यक्षणिकाव्यावर्तेत त्रदा नीलाक्षणिकयोरेकत्वापत्तेस्तव्यावृत्त्योरेकत्वप्रसंगः । स्वभावांतरेण तत्ततो व्यावृत्तमिति वचने तु सिद्धः स्वलक्षस्य स्वभावभेदः कथं निराक्रियते ? । यदि पुनः स्वभावभेदोऽपि वस्तुनो तत्स्वभावव्यावृत्त्या कल्पित एवेति मतं ? तदा परिकल्पितस्वभावांतरकल्पनायामनवस्थानुषज्येत । तथाहि-अनीलस्वभावान्यव्यावृत्तिरपि स्वभावांतरेण अन्यव्यावृत्तिरूपेण वक्तव्या । सापि तदन्यव्यावृत्तिस्वभावांतरेण तथाविधे. नेति न कचिद् व्यवतिष्ठते । कश्चिदाह-तत एव सकलविकल्पवाग्गोचरातीतं वस्तु विकल्पशब्दानां विषयस्यान्यव्यावृत्तिरूपस्य अनाद्यविद्योपकल्पितस्य सर्वथा विचाराऽमहत्वात् । विचारसहत्वे वा तदवस्तुत्वविरोधात् इति सोपि न सम्यग्वादी दर्शनविषयस्याप्यवस्तुत्वप्रसंगात् तस्यापि शब्दविकल्पविषयवत् विचारासहत्वाविरोधात् । तथाहि-नीलस्वलक्षणं सुगतेतरजनदर्शनविषयतामुपगच्छत् किमेकेन स्वभावेन नानास्वभावेन वा दृश्यं स्यात् ? तद्ययेकेन स्वभावेन तदा यदेव सुगतदृश्यत्वं तदेवेतरजनदृश्यत्वमित्यायातं अशेषस्य जगतः सुगतत्वं । यच्चेतरजनदृश्यत्वं तदेव सुगतदृश्यत्वमिति सकलस्य सुगतस्येतरजनत्वापत्तेः सुगतरहितमखिलं स्यात् । अथैतस्मादोषाद्विभ्यता नानास्वभावन सुगततरजनदृश्यत्वं प्रतिपाद्यते तदा नीलस्वलक्षणस्य दृश्यस्वभावभेदः कथमपह्वयेत ! न च दृश्यं रूपमनेकं कल्पितमिति शक्यं वक्तं दृश्यस्य कल्पितत्वविरोधात् । अथ मन्येथाः स्वलक्षणस्य दृश्यत्वं स्वाकारार्पकत्वव्यावृत्तिरूपं नानादृष्टव्यपेक्षयाऽनेकं घटामटत्येव तदभावे नानादृष्टदर्शनविषयतां स्वलक्षणं नास्कंदेत् । न च परमार्थतो दर्शनं दृश्यविषय सर्वज्ञानां स्वरूपमात्रपर्यवासितत्वात् । उपचारादेव बहिर्विषयताव्यवहारात् इति तदप्यसत् वस्तुनः स्वाकारार्पकत्वस्यापि पूर्वपर्यनुयोगानतिक्रमात् । तद्धि स्वलक्षणं येन स्वभावेन सुगतदर्शनाय स्वाकारमर्पयति तेनैवेतरजनदर्शनाय स्वभावांतरेण वा ? यदि तेनैव तदा तदेव सुगतेतरजनदर्शनैकत्वमापनीपयते तथा च सर्वस्य सुगतत्वं इतरजनत्वं वा दुर्निवारतामाचनीस्कंद्यते | स्वभावांतरेण स्वाकारार्पकत्वे स एव वास्तवः स्वभावभेदः स्वलक्षणस्याक्षुण्णतया कथं प्रतिक्षिप्यते । यत्पुनः स्वाकारार्पकत्वमपि न वस्तुनः परमार्थपथप्रस्थायि समवस्थाप्यते स्वरूपमात्रविषयत्वात् सकलसंवेदनानामिति मतं तदपि

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90