Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
सनातनजैनग्रंथमालायांदर्शकं तद्विकल्पानुत्पादकत्वात् इति कुतः स्वरूपस्य स्वतो गतिरवतिष्ठेत !। किं च दर्शनपृष्ठभाविनो विकल्पस्य स्वसंवेदनवलासिद्धौ तत्स्वसंवेदनं कुतः प्रमाणं स्यात् ।। तद्यदि स्वरूपोपदर्शनादेव प्रमाणमास्थीयते ! तदा स्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कंदेत् । तत् स्वसंविदाकार एक.प्रमाणं तद्व्यवसाय जननात्-न पुनरन्यत्रेति परिकल्पनायां तव्यवसायस्वसंवेदनस्यापि व्यवसायांतरोपजननात् स्वरूपोपदर्शनेन भवितव्यमित्यनवस्थानात् , नाद्यव्यवसायस्वसंवेदनस्य प्रामाण्यं । तदप्रामाण्ये च न तत एव व्यवसायसिद्धिः । तदसिद्धौ च न तजननादर्शनस्य स्वविषयोपदर्शकत्वं । तदभावे च न तस्य प्रवर्तकत्वं । अप्रवर्तकस्य नार्थप्राप्तिनिमित्तत्वं । तदसंभवे च नाविसंवादकत्वं तद्विरहे च न सम्यग्ज्ञानत्वं स्वसंवेदनोंद्रयमनो योगिज्ञानानामिति न तैर्व्यभिचारः साधनस्य संभवति ।
स्यान्मतं-अर्थसामर्थ्यादुत्पत्तिः-अर्थसारूप्यं च दर्शनस्य स्वविषयोपदर्शकत्वं तच्च सकलसमक्षवेदनानामव्यवसायात्मकत्वेऽपि संभवत्प्रवर्तकत्वमर्थप्रापकत्वमविसंवादकत्वं सम्यग्ज्ञानलक्षणमिति तैः समीचीनैनैिर्व्यभिचार एव हेतोरिति ? तदपि दुर्घटमेव क्षणक्षयादावपि तदुपदेशकत्वप्रसंगात् । तत्राक्षणिकत्वादिसमारोपानुप्रवेशादयोगिनः प्रतिपत्तुर्नोपदेशकत्वमवतिष्ठते । योगिनस्तु समारोपासंभवात् क्षणक्षयादावपि दर्शनं तदुपदेशकमेवेति समाधानमपि न धीमद्धतिकरं नीलादावप्ययोगिनस्तद्विपरीतसमारोपप्रसक्तेः । कथमन्यथा विरुद्धधर्माध्यासात्तदर्शनभेदो न भवेत् ? न हि-अभिन्नमेकदर्शनं क्वचित्समारोपाक्रांतं कचिन्नेति वक्तुं युक्तं । तता यद्यत्र विपरीतसमारोपविरुद्ध तत्तत्र निश्चायात्मकं यथानुमेयेऽथऽनुमानज्ञानं । विपरतिसमारोपविरुद्धं च नीलादौ दर्शनमिति व्यवसायात्मकमेव बुद्ध्यामहे । निश्चयहेतुत्वाद्दर्शनं नीलादा विपरीतसमारोपविरुद्धं न पुनर्निश्चयात्मकत्वात् ततोऽन्यथानुपपत्तिः साधनस्यानिश्चितेति मामस्थाः योगिप्रत्यक्षेऽस्य विपरीतसमारोपस्य प्रसंगात् तेन तस्याविरोधात् । परेषां तु तस्यापि निश्चयात्मकत्वात्तेन विरोधः सिद्ध एव । तथा निश्चयहेतुना दर्शनेन विरुद्ध प्रतिपादयतः स्वमतविरोधः स्यात् । निश्चयारोपमनसोर्बाध्यबाधकभाव इति. .धर्मकीर्तेरभिमतत्वात् दर्शनारोपयोर्विरोधाभावासद्धेः । ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षविरोधः संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । तदुक्तं--
संहृत्य सर्वतश्चिंतां स्तिमितेनांतरात्मना ।
स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १॥ इति । तथानुमानविरोधोऽपि व्युच्छित्तचिंतावस्थायां-इंद्रियादर्थगतौ कल्पनानुपलब्धेः । तत्र कल्पनासदावे पुनस्तत्स्मृतिप्रसंगः तदा विकल्पितकल्पनावत्-तदप्युक्तं--
पुनर्विकल्पयन् किंचिदासीन्मे कल्पनेशी।
इति वेत्ति न पूर्वोक्तावस्थायामिद्रियाद्गतौ ॥ १॥-इति तदेतदपि धर्मकीर्तेरपरीक्षिताभिधानं प्रत्यक्षतो निर्विकल्पदर्शनाप्रसिद्धत्वात् । संहृतसकलविकल्पावस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकं पुनः स्मरणाभावप्रसंगात् । तस्य संस्कारकारणत्वविरोधात् क्षणिकत्वादिवत् । व्यवसायात्मन एव दर्शनात् । संस्कारस्य स्मरणस्य घ संभवात् अन्यतस्तदनुपपत्तेः । ददुक्तं
व्यवसायात्ननो दृष्टेः संस्कारः स्मृतिरेव वा।
___ दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ १॥ अथ मतं-अभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि दर्शनानीलादौ संस्कारः स्मरणं चोत्पद्यते न पुनः क्षणिकादौ तदभावात् । व्यवसायात्मनोऽपि प्रत्यक्षात्तत एव संस्कारस्मरणोपपत्तेः । तेषामभावे निश्चितेऽपि वस्तुनि नियमेन संस्कारादेरभावात् तेषां व्यवसायात्मकसमक्षवादिनोऽपि नियमतो
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90