SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालायांदर्शकं तद्विकल्पानुत्पादकत्वात् इति कुतः स्वरूपस्य स्वतो गतिरवतिष्ठेत !। किं च दर्शनपृष्ठभाविनो विकल्पस्य स्वसंवेदनवलासिद्धौ तत्स्वसंवेदनं कुतः प्रमाणं स्यात् ।। तद्यदि स्वरूपोपदर्शनादेव प्रमाणमास्थीयते ! तदा स्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कंदेत् । तत् स्वसंविदाकार एक.प्रमाणं तद्व्यवसाय जननात्-न पुनरन्यत्रेति परिकल्पनायां तव्यवसायस्वसंवेदनस्यापि व्यवसायांतरोपजननात् स्वरूपोपदर्शनेन भवितव्यमित्यनवस्थानात् , नाद्यव्यवसायस्वसंवेदनस्य प्रामाण्यं । तदप्रामाण्ये च न तत एव व्यवसायसिद्धिः । तदसिद्धौ च न तजननादर्शनस्य स्वविषयोपदर्शकत्वं । तदभावे च न तस्य प्रवर्तकत्वं । अप्रवर्तकस्य नार्थप्राप्तिनिमित्तत्वं । तदसंभवे च नाविसंवादकत्वं तद्विरहे च न सम्यग्ज्ञानत्वं स्वसंवेदनोंद्रयमनो योगिज्ञानानामिति न तैर्व्यभिचारः साधनस्य संभवति । स्यान्मतं-अर्थसामर्थ्यादुत्पत्तिः-अर्थसारूप्यं च दर्शनस्य स्वविषयोपदर्शकत्वं तच्च सकलसमक्षवेदनानामव्यवसायात्मकत्वेऽपि संभवत्प्रवर्तकत्वमर्थप्रापकत्वमविसंवादकत्वं सम्यग्ज्ञानलक्षणमिति तैः समीचीनैनैिर्व्यभिचार एव हेतोरिति ? तदपि दुर्घटमेव क्षणक्षयादावपि तदुपदेशकत्वप्रसंगात् । तत्राक्षणिकत्वादिसमारोपानुप्रवेशादयोगिनः प्रतिपत्तुर्नोपदेशकत्वमवतिष्ठते । योगिनस्तु समारोपासंभवात् क्षणक्षयादावपि दर्शनं तदुपदेशकमेवेति समाधानमपि न धीमद्धतिकरं नीलादावप्ययोगिनस्तद्विपरीतसमारोपप्रसक्तेः । कथमन्यथा विरुद्धधर्माध्यासात्तदर्शनभेदो न भवेत् ? न हि-अभिन्नमेकदर्शनं क्वचित्समारोपाक्रांतं कचिन्नेति वक्तुं युक्तं । तता यद्यत्र विपरीतसमारोपविरुद्ध तत्तत्र निश्चायात्मकं यथानुमेयेऽथऽनुमानज्ञानं । विपरतिसमारोपविरुद्धं च नीलादौ दर्शनमिति व्यवसायात्मकमेव बुद्ध्यामहे । निश्चयहेतुत्वाद्दर्शनं नीलादा विपरीतसमारोपविरुद्धं न पुनर्निश्चयात्मकत्वात् ततोऽन्यथानुपपत्तिः साधनस्यानिश्चितेति मामस्थाः योगिप्रत्यक्षेऽस्य विपरीतसमारोपस्य प्रसंगात् तेन तस्याविरोधात् । परेषां तु तस्यापि निश्चयात्मकत्वात्तेन विरोधः सिद्ध एव । तथा निश्चयहेतुना दर्शनेन विरुद्ध प्रतिपादयतः स्वमतविरोधः स्यात् । निश्चयारोपमनसोर्बाध्यबाधकभाव इति. .धर्मकीर्तेरभिमतत्वात् दर्शनारोपयोर्विरोधाभावासद्धेः । ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षविरोधः संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । तदुक्तं-- संहृत्य सर्वतश्चिंतां स्तिमितेनांतरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १॥ इति । तथानुमानविरोधोऽपि व्युच्छित्तचिंतावस्थायां-इंद्रियादर्थगतौ कल्पनानुपलब्धेः । तत्र कल्पनासदावे पुनस्तत्स्मृतिप्रसंगः तदा विकल्पितकल्पनावत्-तदप्युक्तं-- पुनर्विकल्पयन् किंचिदासीन्मे कल्पनेशी। इति वेत्ति न पूर्वोक्तावस्थायामिद्रियाद्गतौ ॥ १॥-इति तदेतदपि धर्मकीर्तेरपरीक्षिताभिधानं प्रत्यक्षतो निर्विकल्पदर्शनाप्रसिद्धत्वात् । संहृतसकलविकल्पावस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकं पुनः स्मरणाभावप्रसंगात् । तस्य संस्कारकारणत्वविरोधात् क्षणिकत्वादिवत् । व्यवसायात्मन एव दर्शनात् । संस्कारस्य स्मरणस्य घ संभवात् अन्यतस्तदनुपपत्तेः । ददुक्तं व्यवसायात्ननो दृष्टेः संस्कारः स्मृतिरेव वा। ___ दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ १॥ अथ मतं-अभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि दर्शनानीलादौ संस्कारः स्मरणं चोत्पद्यते न पुनः क्षणिकादौ तदभावात् । व्यवसायात्मनोऽपि प्रत्यक्षात्तत एव संस्कारस्मरणोपपत्तेः । तेषामभावे निश्चितेऽपि वस्तुनि नियमेन संस्कारादेरभावात् तेषां व्यवसायात्मकसमक्षवादिनोऽपि नियमतो
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy