Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
आप्तमीमांसा।
१९
अधुना सर्वथा सर्वपदार्थपृथक्त्वैकांतवादिवैशेषिकादिमत्तकदर्थनार्थमाह
अष्टशती-अद्वैतशब्दः स्वाभिधेयप्रत्यनीकपरमार्थापेक्षा-नापूर्वीखंडपदत्वात् अहेत्वभिधानवत् । नात्र किंचिदतिप्रसज्यते तादृशो नत्रो वस्तुप्रतिषेधनिबंधनत्वात् । सर्वत्र प्रतिषेध्यादते संज्ञिनः प्रतिषेधाभावः प्रत्येतव्यः ।। २७ ॥ इष्टमद्वैतकांतापवारणं पृथक्त्वैकांतांगीकरणात् इति मावदीधरत् ।
पृथक्त्वैकांतपक्षेऽपि पृथक्त्वादपृथक्कृतौ ।
पृथक्त्वे न पृथक्त्वं स्यादनकस्थो बसौ गुणः ॥ २८॥ - वृत्तिः-यद्यप्यद्वैतैकांतपक्षे दोषभयात् पृथक्त्वमित्येकांतपक्षोऽभ्युपगभ्यते तथापि पृथग्गुणात्तावपृथग्भूतावभ्युपगन्तव्यौ गुणगुण्यादी । अन्यथा तस्मादपि यदि तौ पृथक् भिन्नौ स्यातां तदानीं पृथक्त्वाख्योगुणो न स्यात् ? कुतः । यतोऽनेकस्थो. ह्यसौ गुणो दृष्ट इत्यर्थः न च तयोः पृथक्त्वगुणः पृथग्गतिः सर्वेषामभावः स्यात् । तस्मात् भेदपक्षोऽपि नः श्रेयान् ॥
इदानी पृथक्त्वैकांतवादिविशेषमायासु क्षणिकत्वक्रांतकदर्थनार्थमाह
अष्टशती-पृथगभूतपदार्थेभ्यः पृथक्त्वस्य पृथग्भावे तेषामपृथक्त्वप्रसंगात् । तद्गुणगुणिनोरता: दात्म्ये घटपटवद् व्यपदेशोऽपि माभूत् संबंधनिबंधांतराभावात् । पृथक्त्वमन्यद्वा पृथग्भूतमनंशं-अनेकस्थेषु नि पर्यायं वर्तते-इति दुरवगाहं ॥ २८ ॥
संतानः समुदायश्च साधर्म्य च निरंकुशः।
प्रेत्यभावश्च तत्सर्व न स्यादेकत्वानिहवे ॥ २९॥ वृतिः-एकत्वस्य सादृश्यस्य कथंचित्तादात्म्यस्य । निहवोऽपह्नुतिनिराकरणम् । अथवा एकशब्दो द्रव्यवचनोऽयं ततः स्वार्थिकस्त्वप्रत्ययः तस्मिन्नेकत्वनिहवे | क्रमभाविना कारणतद्वतामालीनकमन्दकमधुरकादीनां गोरसजातिमजहतामुत्तरोत्तरपरिणामप्रवाहः संतानो न स्यान्न, भवेत् । तथा रूपरसादीनां धर्माणां सहभुवां नियमतो युगपदुत्पादव्ययभाजामकस्मिन्नवस्थानं समुदयो न स्यात् यद्यनेकांतात्मकं द्रव्यं न स्यात् । तथा शब्दघटादीनां साधर्म्य च न स्यात् । मृत्वाऽमुत्र प्राणिनः प्रादुर्भावः प्रेत्यभावः सोऽपि न स्यात् । निरंकुशो निर्बाधोऽस्खलितरूपः सर्वत्र सबंधनीयः। चशब्देन. प्रत्यभिज्ञानादयोऽपि न स्युः । तदेतत्सर्वे न. स्यादिति समुदायन निर्देशात् यथायोग्यं सबंधो भवति । सोमान्यनिर्देशान्नपुंसकलिंगता।
पुनरपि भेदैकांते. दूषणमाह
अपशती-कार्यकारणयोः पृथक्वैकांते कार्यकालमात्मानमनयतः: कारणत्वाऽसंभवात्तदनुत्पत्तेः कुतः संततिः ? पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोरतिशयात्मनोरन्वयः संतानः क्वचित्क्षणांतरे नीललोहित्यदिनिर्भासचिौकसंवेदनवत् कथंचिदेकत्वमेव. भवितुमर्हति । तदवयवपृथक्त्वकल्पनायां चित्रान सो
भात् पृथगवांतरविषयानेकसंतानकक्षणवत् तत्र प्रत्यासत्तिविशेष:कथंचिदैक्यात् कोऽपरःस्यात् ?अन्यथा वेद्यवेदकाकारयोरपि पृथक्त्वैकांतप्रसंगात । स्वभावभेदेऽपि. सहोपलंभनियमात्कथंचिदभेदाभ्युपगमे कथंमेकसंतानसंविदां समनंतरोपलंभनियमात्कथंचिदैक्यं न स्यात् । तत्र. यथा प्रत्यासत्या संतानः समुदायश्च तथैव कथंचिदैक्यमस्तु । न हि तादृशां साधर्म्यमन्यदन्यत्रात्मसांकार्यात् । एकज्ञाननिर्भासविशेषाणां मिथः स्वभावभेदेऽपि यथैकत्वपरिणामः स्वभावतोऽनंकुशः-तथा प्रेत्यभावादिषु संतानान्वयः परमार्थैकत्वमात्मस:क्वजीवादिव्यपदेशभाजनं स्वभावभेदानाक्रम्य स्वामिवदनन्यत्र वर्तयति ॥ २९ ॥
१ अभिमतमद्वैतकातप्रतिषेधः इत्यर्थः। सर्वमित्यत्रेत्यर्थः। ३। मा भूदिति ख. पुस्तके पाठः ।
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90