Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
आप्तमीमांसा। न हि मिथ्याज्ञानस्य संवादनैकांतः । तथा न लैंगिकं सर्वथैवाविसंवादकत्वात् । तस्मात्सूक्तं तत्त्वज्ञानमेव प्रमाणं । कारणस्य सामिग्रीभेदात्प्रतिभासभेदेऽपि इति । प्रमाणमेव वा तत्त्वज्ञानं । ततः स्वलक्षणदर्शनानंतरभाविनस्तत्त्वव्यवसायस्य प्रमाणतोपत्तेः प्रत्यक्षमनुमानमिति प्रमाणे एवेत्यधारणं प्रत्याचष्टे अनधिगतार्थधिगमाभावात, तदप्रमाणत्वे लैंगिकस्यापि माभूद्विशेषाभावात् । अनधिगतस्वलक्षणाव्यवसायात् अनुमितेरतिशयकल्पनायां प्रकृतस्यापि न वै प्रामाण्यं प्रतिषेध्यं-अनिर्णीतनिर्णयात्मकत्वात् क्षणभंगानुमानवत् | ध्वनेरखंडशः श्रवणाधिगमोऽपि प्राथमकल्पिकस्तत्त्वनिर्णीतिरेव । तदत्यये दृष्टेरपि विसंवादकत्वेन प्रामाण्यानुपपत्तेरदर्शनातिशायनात् । तदर्शनाभावेऽपि तत्त्वनिश्चये तदन्यसमारोपव्यच्छेदलक्षणप्रमा णलक्षणांगीकरणात् । कचित्कुतश्चिधूमकेतुलैंगिकवन्निर्णीतार्थमात्रस्मृतरधिगतार्थाधिगमात् प्रामाण्यं माभूत्। प्रमितिविशेषाभावात् , प्रकृतीनर्णयस्य प्रामाण्ये हि न किंचिदतिप्रसज्यते निर्णीतेऽपि कथंचिदतिशायनात् । प्रत्यभिज्ञानं प्रमाणं व्यवसायातिशयोपपत्तेः तत्मामाधीनत्वात् प्रमाणत्वसिद्धेः, अन्यथा हि विसंवादः स्यात् लिंगलिंगिसबंधज्ञानं प्रमाणमानश्चितनिश्चयादनुमानवत् । सत्त्वक्षणिकत्वयोधूमतत्कारणयोर्वा साकल्येन व्याप्तिप्रतिपत्तौ न प्रत्यक्षत्वमुत्सहते सन्निहितार्थानुकारित्वात् अपरीक्षाक्षमत्वाच्च । नानुमानमनवस्थानुषंगात् । सूदूरमपि गत्वा तदुभयव्यतिरिक्तं व्यवस्थानिमित्तमभ्युपगंतव्यं । उपमानादिकं प्रमाणांतरभावमिच्छतां तत्त्वनिर्णयप्रत्यवमर्शप्रतिबंधाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तु डिमानमाविष्करोति इति प्रत्यक्षं परोक्षमित्येवतयं प्रमाण अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि परोक्षेऽतर्भावात् । तत्र सकलज्ञानावरणपरिक्षयविजृभितं केवलज्ञानं युगपत्सर्वार्थविषयं । तथाचोक्तं 'सर्वद्रव्यपर्यायेषु केवलस्य' इति । तज्ज्ञानदर्शनयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्यात् । कुतस्तत्सिद्धिरिति चेत् ! सामान्यविशेषविषययोर्विगतावरणयोरयुगपत्प्रतिभासायोगात् प्रतिबंधांतराभावात् । शेषं सर्वे क्रमवृत्ति प्रकारांतरासंभवात् । चक्षुरादिज्ञानपंचकस्यापि परस्परव्यवधानेऽपि विच्छेदानुपलक्षणं क्षणक्षयवत् । यौगपद्ये हि संतानभेदात्परस्परपरामर्शाभावः संतानांतरवत् । मानसप्रत्यक्षेऽपि चक्षुरादिज्ञानानंतरप्रत्ययोद्भवेन कश्चिद्विशेषः क्रमवृत्ती व्यवधानप्रतिभासविकल्पप्रतिपत्तरसंभवात् । यौगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषांतरवद्विषयस्यानकांतात्मकत्वात्। मतिज्ञानादि स्याद्वादनयलाक्षतं प्रतिपत्तव्यं ॥ १०१॥
उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः ।
पूर्व वाऽज्ञाननाशो वा सवेस्यास्य स्वगोचरे ॥ १०२॥ वृत्तिः-आद्यस्य प्रमाणस्य केवलज्ञानस्य फलमुपेक्षा रागमोहाभावः । शेषस्य प्रमाणस्य छमस्थायज्ञानस्य, आदानं ग्रहणं हानं त्यागस्तयोर्बुद्धिः तत्फलं । पूर्व वा उपेक्षा वेत्यर्थः । सामान्यापेक्षायां नपुंसकलिगता । पूर्वा वेति पाठांतरं । वा अज्ञाननाशः फलं ज्ञानतेत्यर्थः । सर्वस्यास्य मत्यादिभेदभिन्नस्य हिताहितभेदभिन्ने स्वगोचरे स्वविषये वर्तमानस्यौत्सर्गिकं फलमज्ञाननाश इत्युक्तं ॥ १०२ ।। -- प्रस्तुतस्याद्वादाख्यपरार्थसाधनसमर्थनार्थमाह
अष्टशती-सिद्धप्रयोजनत्वात् केवलिनां सर्वत्रोपेक्षा । करुणावतः परदुःखजिहासोः कथमुपेक्षा तदभाने कथं वाप्तिः ! इति चेत् स्वदुःखनिवर्तनवदकरुणयापि वृत्तेरन्यदुःखनिराचिकर्षाियां । दयालोरेवात्मदुःखनिवर्तनादसमाधिरिति चेत् ? न वै प्रदीपः कृपालुतया आत्मानं परं वा तमसा निवर्तयति इति । कल्पयित्वापि कृपालुतां तत्करणस्य स्वभावसामर्थ्य मृग्य। एवं हि परंपरापरिश्रमं परिहरेत् । मत्यादेः साक्षात्फलं स्वार्थव्यामोहविच्छेदः तदभावे दर्शनस्यापि सन्निकर्षाविशेषात् । क्षणपरिणामोपलंभवदविसंवादकस्वासंभवात् । परंपग्या हानोपादानसंवित्तिः । तथाहि-करणस्य क्रियायाश्च कथंचिदकत्वं प्रदीपतमोविगमवत् । नानात्वं च परश्वादिवत् । तस्माद्ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्थायामपि विसंवादनिराक
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90