Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 55
________________ सनातनजैनग्रंथमालायांरणे तदज्ञस्येव विषदृष्टिः प्रमाणत्वं न प्रतिपक्षमहति । तावतैव प्रमाणत्वे क्षणिकत्वाद्यनुमानं-अधिगतार्थ धिगमलक्षणत्वान्न वै प्रमाणं ॥ १०२॥ वाक्येष्वनेकांतद्योती गम्यं प्रति विशेषकः । स्यानिपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥ वृत्तिः-पदानां परस्परापेक्षाणां निरपेक्षाः समुदाया वाक्यानि तेषु वाक्येष्वनेकांतं द्योतयति प्रकटयातीति अनेकांतद्योती । स्याच्छब्दो निरातोऽव्ययं । गम्यमभिधेयमस्ति घट इत्यादिवाक्येऽस्तित्वादि तत्प्रति विशेषकः समर्थकः । अथवा गम्यं हेयादेयभेदभिन्नं वस्तु यथा यदवस्थितं तथैव तस्य विशेषकः । अर्थस्य तत्तदात्मकस्य योगित्वं घटनं तस्मादन्येषां पुनर्धाणां गुणीभूतत्वात् । तव भवत एतदुक्तं केवलिनां श्रुतकेवलिनां च अपिशब्दात्तच्छिष्यप्रशिष्याणां च नान्येषां तथाभूतस्य वस्तुभावात् ॥ १०३ ॥ पुनरपि तदेव समर्थयति अष्टशती-पदानां परस्परापेक्षणां निरपेक्षः समुदायो न तर्हि तदानीमिदं भवति-यथा यत्सत्तत्सर्व परिणामि यथा घटः संश्च शब्दः, तस्मात्परिणामत्यिाकांक्षणात् । प्रतिपत्तुर्धर्मोऽयं वाक्येष्वध्यारोप्यते सचेप्रतिपत्ता तावतार्थ प्रत्येति किमिति शेषमाकांक्षति । प्रकरणादिना वाक्यकल्पनाप्यर्थप्रातिपत्तौ न वा प्राथमकल्पिकवाक्यलक्षणपरिहारः सत्यभामादिपदवत् । सदसन्नित्यानित्यादिसर्वथैकांतप्रतिक्षेपलक्षणो नैकांतः । क्वचित्प्रयुज्यमानः स्याच्छब्दः तद्विशेषणतया प्रकृतार्थतत्त्वमनवयवेन सूचयति। प्रायशो निपातानां तत्स्वभावत्वात् एवकारादिवत् । न हि केवलज्ञानवदखिलमक्रममवगाहते वाचः क्रमवृत्तित्वात् तद्बुद्धरपि. तथाभावात् ॥ १०३ ॥ स्याद्वादः सर्वथैकांतत्यागात्किवृत्तचिद्विधिः । सप्तभंगनयापेक्षो हेयादेयविशेषकः ॥ १०४॥ वृत्तिः-स्याद्वादोऽर्थप्रकरणादीनां घटादिशब्दार्थविशेषस्थापनहेतूनामनुकूलः । कुतः सर्वथैकांतत्यागात्तेषामर्थप्रकरणादीनां प्रतिकूलस्यैकांतस्य त्यागात् । अथ कथं प्रकारः स्याद्वादः किंवृत्तचिद्विधिः किमो वृत्तं किं निष्पन्नं वृत्तं किंवृत्तं च तच्चिच्च किंवृत्तचित् तदेव विधिः प्रकारो यस्य कथंचित् कुतश्चिदित्यादि । सप्तभंगाश्च ते नयाश्च तानपेक्षत इति स्यादस्ति स्यान्नास्त्यादि । हेयादेययोर्विशेषकः गुणमुख्यकल्पनया॥१०४॥ स्याद्वादकेवलज्ञानयोः कथंचित्सामान्यं दर्शयन्नाह अष्टशती-कथंचिदित्यादि किं वृत्तचिद्विधिः स्याद्वादपर्यायः सोऽयमनेकांतमभिप्रेत्य सप्तभंगनयापेक्षः स्वभावपरभावाम्यां सदसदादिव्यवस्था प्रतिपादयति । सप्तभंगी प्रोक्ता द्रव्यार्थिकपर्यायार्थिकप्रविभागवशान्नैगमादयः शब्दार्थनया बहुविकल्पा मूलनयद्वयशुद्धयशुद्धिभ्यां ॥ १०४ ॥ स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच ह्यवस्त्वन्यतमं भवेत् ॥ १०५॥ वतिः-सर्वाणि च तानि तत्त्वानि च जीवाजावादीनि तानि प्रकाशत इति सर्वतत्त्वप्रकाशने के. ते द्वे स्याद्वादश्च केवलज्ञानं च ते द्वे प्रमाणे । तयोर्मध्येऽन्यतमं परैः परिकल्पितमवस्तु भवेद्यतः कथं तयोर्भेदः साक्षात्प्रत्यक्षादसाक्षादप्रत्यक्षात् ॥ १०५ ॥ प्रमाणं चर्चितमथ को नयो नामेत्याह अष्टशती-स्याद्वादकेवलज्ञाने इति निर्देशात् तयोरभ्यर्हितत्वान्नियमं दर्शयति परस्परहेतुकत्वादभ्यहिते वा पूर्वनिपातेऽव्यभिचारं सूचयति । कथं पुनः स्याद्वादः सर्वतत्त्वप्रकाशनो यावता "मतिश्रुतयोनिबंधो

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90