Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
समातनजनेप्रथमालायां
अष्टशती - इति स्वोक्तपरिच्छेद विहितेयमाप्तमीमांसा सर्वज्ञविशेषपरीक्षानिःश्रेयसकामिनां । अभव्यान तदनुपयोगात् । तत्त्वेतरपरीक्षां प्रति भव्यानामेव हि नियताधिकृतिः ॥ ११४ ॥
श्रीबर्द्धमानमकलंकमानिंद्यवंद्य -
पादारविंदयुगलं प्रणिपत्य मूर्ध्ना *भव्यैकलोकनयनं परिपालयतं
स्याद्वादवर्त्म परिणौमि समंतभद्रं ॥ १ ॥ -इत्यष्टशती समाप्ता ।
जयति जगति क्लेशावेश प्रपंच हिमांशुमान् विहतविषमैकांतध्वांतप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मतांबुनिधेर्लवान् स्वमतमतयस्तीर्थ्या नाना परे समुपासते ।। ११५ ॥
वृत्तिः- : -- यस्य भट्टारकस्य मतांबुधेरागमोदधेलवान् कणान् अधृष्टानखरीकृतान् परे नाना तीर्थ्याः प्रवादिनः सुगतादयः स्वमते मतिर्येषां ते स्वमतमतयः कृतात्मबुद्धयः समुपासते सेवते सोऽजो जातिजरा- मरणरहितो यतिपतिः प्रधानस्वामी जयति त्रैलोक्यस्वामित्वं करोति बाह्याभ्यंतरशत्रून् निहत्य जयति लोके । पुनरपि किंविशिष्टः ? क्लेशस्य दुःखस्य आवेशः कदर्थना तस्य प्रपंचो विस्तारः स एव हिमं प्रालेयः तस्यांशुमानादित्यः । एकांत एव ध्वांतं तमः विषमं च तदेकांतध्वांतं च विषमैकांतध्वांतं प्रमाणं च नयाश्च प्रमाणनया उक्तलक्षणा विहतं निराकृतं विषमैकांतध्वांतं यैस्ते तथाभूतास्ते च ते प्रमाणनयाश्च त एवांशवः किरणास्ते विद्यते यस्य स तथाभूत इति यतिपतेर्विशेषणं ॥ ॥ ११५ ॥ ॥
श्रीमत्समंतभद्राचार्यस्य त्रिभुवनलब्धजयपताकस्य प्रमाणनयचक्षुषः स्याद्वादशरीरस्य देवाममाख्यातेः संक्षेपभूतं विवरणं कृतं श्रुतविस्मरणशीलेन वसुनंदिना जडमतिनाऽऽत्मोपकाराय ।
समंतभद्रदेवाय परमार्थविकल्पिते । समंतभद्रदेवाय नमोऽस्तु परमात्मने ॥ १ ॥
१ नैतत्पद्यस्थाष्टशत्युपलब्धा ।
सुखाय जायते लोके वसुनंदिसमागमः ।
तस्मात् निषेव्यतां भव्यैर्वसुनंदिसमागमः ॥ २ ॥
इति श्रीवसुनंद्याचार्यकृता देव गमवृत्तिः समाप्ताः ।
समाप्तोऽयं ग्रंथः ।
A
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90