Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 58
________________ आप्तमीमांसा। ४९ ननु सामान्यमेव वाचोऽर्थो यदुत विशेषे वर्तते सामान्येऽर्थक्रियाभावादिति संसर्गबोधमतं तन्निराकरणार्थमाह-- अष्टशती-वाचः स्वभावोऽयं येन स्वार्थसामान्यं प्रतिपादयंती तदपरं निराकरोति । अन्यतरापाये ऽनुक्तानतिशायनात् । इदं तदानेयं तद्यावान् प्रतीयेत तदर्थः । कूर्मरोमादिवत् नच सामान्य विशेषपरि. हारेण कचिदुपलभामहे । अनुपलभमानाश्च कथं स्वात्मानं परं वा तथाभिनिवेशेन विवल भामहे ? ॥१११॥ सामान्यवाग्विशेषे चेन्न शब्दार्था मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलांछनः ॥ ११२ ॥ वृत्तिः-सामान्यसंबंधिनी वाक् विशेषे वर्तते-विशेषमाचष्टे तत्त्वार्थक्रियाभावात् चेदेवं भवतोऽभिप्रायः ? तर्हि शब्दस्यार्थोऽभिधेयः कुतः ? तादृग्भूता वाक् मृषा पलीका सा । यस्मान्न ह्यन्यस्य वाचकोऽन्यमाह । घटशब्दः पटार्थस्य न कदाचिदपि प्रतिपादकः। नाप्यपोहोऽस्यार्थः, अपोहो हि परव्यावृत्तिः सा च तुच्छा ततो भेदक्षाणिकैकांतपक्षे न वाच्यं नापि वाचको नानुमानं नाप्यागमः सर्वाभावोऽतः स्यात्कारः स्याद्वादः सत्यलांछनः सत्यभूतोऽभिप्रेतविशेषस्याप्तेनिमित्तमिष्टार्थप्राप्तिहेतोराश्रयणीयः सर्वदोषकलंकातीतत्वात् । तस्यैव स्वरूपमाह अटशती-अस्तीति केवलमभावव्यवच्छेदादपोहमाहेति चेत् ? कः पुनरपोहः? परतो व्यावृत्तिरभावः । कथमेबं सत्यभावं प्रतिपादयति भावं न प्रतिपादयतीत्येवमनुक्तसमं न स्यात् । तद्विकल्पो मिथ्याभिनिवेशवशादिति चेन चैतत्तस्य प्रतिपादकं मिथ्याविकल्पहेतुत्वाद् व्यलीकवचनवत् । ततः स्याद्वाद एव सत्यलांछनो न वादांतरमित्यनुशाययति ॥ ११२ ॥ विधेयमीप्सितार्थागं प्रतिषेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ ११३॥ वृत्ति:-विधेयमस्तीत्यादि प्रतिषेध्यस्य नास्तित्वादेरविरोधेनाविरुद्धं यत्तदीप्सितार्थस्याभिप्रेतकार्यस्यांगं कारणं । तथैवादेयं वस्तु हेयात्त्याज्यादविरुद्धं । इत्यनेन प्रकारेण स्याद्वादस्य संस्थित्तिः सर्वप्रमाणैरविरुद्धो सिद्धिरिति प्रमाणहेतुदृष्टांताभासाः परवादिपरिकल्पितप्रमाणहेतुदृष्टांता वेदितव्याः । कुतः ? तल्लक्षणाभावात् । वस्त्वपि तैर्यत्परिकल्पितं तदपि नास्ति लक्षणाभावात् । तस्माद्यदनेकांतात्मकं तत्सत्यं लक्षणयोगादिति । शास्त्रार्थोपसंहारकारिकामाह अष्टशती-अस्तीत्यादि विधेयमभिप्रेत्य विधानात् नास्तित्वादिभिरविरुद्धं विधिप्रतिषेधयोरन्योन्याविविनाभावलक्षणत्वात् स्वार्थज्ञानवत् । तद्विधेयप्रतिषेध्यात्मविशेषात् स्याद्वादः प्रक्रियते सप्तभंगीसमाश्रेयात् ॥ ११३॥ इतीयमाप्तमीमांसा विहिता हितमिच्छता । सम्यमिथ्योपदेशार्यविशेषप्रतिपत्तये ॥ ११४ ॥ वृत्तिः-इत्यनेन प्रकारेणेयं प्रत्यक्षतश्च योऽयमुपदेशस्तस्यार्थः स्वरूपं तस्य विशेषो याथात्म्यं तस्य प्रतिपत्तिरवगमस्तस्यै सम्यगुपदेशोऽयं मिथ्यति सर्वज्ञेन ज्ञायते यस्मात् । कृतकृत्यो नियूंढतत्त्वप्रतिज्ञ आचार्यः श्रीमत्समंतभद्रकेसरी प्रमाणनयतीक्ष्णनखरदंष्ट्राविदारितप्रवादिकुनयमदविह्वलकुंभिकुंभस्थलपाटनपटुरिदमाह

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90