Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 56
________________ आप्तमीमांसा । द्रव्येष्वसर्वपर्ययेषु”। जीवादयः सप्तपदार्थास्तत्त्वं तत्प्रतिपादनाविशेषात् । तथा हि भेदः साभादसाक्षाच्चेति साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिछिनत्ति नान्यत इति यावत् ॥ १०५ ॥ सधर्मणैव साध्यस्य साधर्म्यादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यंजको नयः ॥ १०६ ॥ ४७ वृत्तिः - समानो गुणो यस्य स सधर्मा तेन सधर्मणैव एवकाराद्विपक्षनिराकरणं साध्यस्यानित्यत्वादेः शक्याभिप्रेताप्रसिद्धस्य । सधर्मणो भावः साधर्म्यं तस्मात्साधर्म्यात् । स्याद्वादः श्रुतज्ञानं तेन प्रविभक्तो विषयीकृतोऽर्थस्तस्य विशेषो नित्यत्वादिस्तद्व्यंजकः प्रकटको द्योतको नयो युक्तितोऽर्धपरिग्रहः । इत्यनेनान्वयव्यतिरेकपक्षधर्मा उक्ताः । अविरोधादित्यनेनान्यथानुपपत्येकलक्षणो हेतुः प्रदर्शितः । किमुक्तं भवतिअंतर्व्याप्तिमंतरेण त्रिलक्षणो हेतुर्न गमक इति । अथ को नयप्रमाणयोर्विशेषः ? अनेकांतप्रतिपत्तिः प्रमाणं, एकधर्मप्रतिपत्तिर्नयः ॥ तद्विषयस्य द्रव्यस्य स्वरूपप्रतिपादनार्थमाह अष्टशती - सपक्षेणैव साध्यस्य साधर्म्यादित्यनेन हेतोस्त्रैलक्षण्यमविरोधात् इत्यन्यथानुपपत्तिं च दर्शयता केवलस्य त्रिलक्षणस्यासाधनत्वमुक्तं तत्पुत्रत्वादिवत् । एकलक्षणस्य तु गमकत्वं “नित्यत्वैकांत क्षेऽपि विक्रिया नापपद्यतं इति” बहुलमन्यथानुपपत्तेरेव समाश्रयणात् । यत्रार्थक्रिया न संभवति तन्न वस्तु यथा विनाकांतः तथा च नित्यत्वेऽपि क्रमयौपद्याभ्यामर्थक्रिया न संभवति नापरं प्रकारांतरं - इति त्रिलक्षणयोगेऽपि प्रधानमेकलणं तत्रैव साधनसामर्थ्यपरिनिष्ठितेः । तदेव प्रतिबंधः पूर्ववद्वीतसंयोग्यादिसकलहेतुप्रतिष्ठापकं । ततः स्याद्वादेत्यादिनानु|मितमनेकांतात्मकमर्थतत्त्वमादशर्यति । तस्य विशेषो नित्यत्वादिः पृथक् पृथक्त्वस्य प्रतिपादको नयः । तथा चोक्तं अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधीः नयः धर्मातरापेक्षी दुर्णयस्तन्निराकृतिः ॥ १ । तदनेकांतप्रतिपत्तिः प्रमाणं । एकधर्मप्रतिपत्तिर्नयः । तत्प्रत्यनीकप्रतिक्षेपो दुर्णयः केवलं विपक्षविरोधदर्शनेन स्वपक्षाभिनिवेशनात् ॥ १०६ ॥ नयोपनयैकतानां त्रिकालानां समुच्चयः । अविभ्राट् भावसंबंधो द्रव्यमेकमनेकधा ।। १०७ ॥ बृत्तिः-नया नैगमादयः सप्त उपनयास्तद्भेदोपभेदार्थपर्यायास्त एवैकांताः प्रधानधर्मस्तदूप्रायत्वात्तद्व्यपदेशः । त्रयः काला विषयो येषां ते तथाभूतास्तेषां समुच्चय एकस्मिन्नवस्थानम् | अविभ्राट् अपृथक् भावसंबंधः सत्तासंबंधो यस्य स तथाभूतस्तद्द्रव्यमेकमभेदापेक्षया पुनरनेकप्रकारं ॥ १०७ ॥ तदर्थं चोद्य परिहारायाह - - उक्तलक्षणो द्रव्यपर्यायस्थानः संग्रहादिर्नयः । तच्छाखा प्रशाखात्मोपनयः । तदेकांतातात्मनां विपक्षापक्षालक्षणानां त्रिकाललक्षणानां त्रिकालविषयाणां समितिर्द्रव्यं । ततस्तेषामपोद्धारात् गुणगुण्यादिवत् ॥ १०७ ॥ मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकांतताऽस्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥ १०८ ॥ वृत्तिः- नित्यानित्यास्तित्वादीनां मिथ्याधर्माणां योऽयं समूहः समुदायः स मिथ्याऽसत्यरूप इति चेदेवं भवतोऽभिप्रायः । मिथ्येत्येकांत: संग्रहस्तस्य भावो मिथ्यैकांतता सा नोऽस्माकं नास्ति न विद्यते । .

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90