Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
४८
सनातनजैनग्रंथमालायांकुतः यतो निरपेक्षा नयाः मिथ्या परस्परमपेक्षा घटना तस्या निर्गताः पृथग्भूता धर्मा व्यलीकाः । सापेक्षाः परस्परसंबद्धास्ते नया वस्तु परमार्थतत्त्वं यतोऽर्थकृत् क्रमाक्रमाभ्यामर्थकारित्वादतो न चोद्यस्यावतारः ।
पुनरपि तमर्थ समर्थयन्नाह
अष्टशती-सुनयदुर्णययोर्यथास्माभिलक्षणं व्याख्यातं तथा न प्रबोध्यं न परिहारः । तथाहि-निरपेक्षत्वं प्रत्यनीकधर्मस्य निराकृतिः । सापेक्षत्वमुपेक्षा अन्यथा प्रमाणनयाविशेषप्रसंगात् । धर्मातरादानोपेक्षाहानिलक्षणत्वात् प्रमाणनयदुर्णयाणां प्रकारांतरासंभवाच्च । तदतत्स्वभावप्रतिपत्तेस्तत्प्रतिपत्तिरन्यनिराकृतिश्चेति विश्वोपसंहृतिः ॥ १०८॥
नियम्यतेऽयों वाक्येन विधिना वारणेन वा ।
तथाऽन्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥ १०९॥ बत्तिः-वाक्येन, अस्ति घटो नास्ति वेति विधिप्रतिषेधरूपेणार्थो नियम्यते नियंत्र्यते विशेषविषयं नीयते तस्मात्सोऽर्थस्तथा च तदतदात्मक इत्यभ्युपगंतव्यः । यदि पुनरन्यथान्येन प्रकारेणैकांतरूपेणाभ्युपगम्यते तदानीमविशेष्यत्वमवस्तुत्वं स्यादेकधर्माक्रांतत्वेन वस्त्वस्ति यतः।। ... वाक् द्विविषया न भवतीत्यस्य निराकरणायाह--
अष्टशती-यत्सत् तत्सर्वमनेकांतात्मकं वस्तुतत्त्वं सर्वथा तदर्थक्रियाकरित्वात् । स्वविषयाकारसंवित्तिवत् । न किंचिदेकांतं वस्तुतत्त्वं सर्वथा तदर्थक्रियासंभवात् गगनकुसुमादिवत् । नास्ति सदेकांतः सर्वव्यापारविरोधप्रसंगात् असदेकांतवदिति विधिना प्रतिषेधेन वा वस्तुतत्तं नियम्यते । अन्यथा तद्विशिष्टमर्थतत्वं न स्यात् इत्यनेन विधिप्रतिषेधयोर्गुणप्रधानभावेन सदसदादिवाक्येषु वृत्तिरिति लक्षयति ॥ १०९ ।।
तदतद्वस्तु वागेषा तदेवेत्यनुशासति ।
न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ॥ ११० ॥ 'वृत्तिः-एषा वागेतद्वचनं सर्वाभ्युपगतं तच्चातच्च तदतत् अस्तित्वनास्तित्वात्मकं वस्तुतत्त्वं तदेव तादृग्भूतमेव नैकांतात्मकमेवेत्येवमनुशासति कथयति प्रतिपादयति । यदि न सत्या सद्भता स्याद्भवेत् । एवं सति मृषा वाक्यानि असत्यरूपाणि वाक्यानि स्युः । तथा सति तत्त्वार्थस्य परमार्थस्य प्रमाणहेतुफलप्रतिपादकस्य येयं देशना कथनं परप्रतिपादनं कथं स्यात् ! किं तु न भवेदेव । तथा च विशीर्ण प्रमाणादिलक्षणं वर्म । तस्माद्यत्सत्तदनेकांतात्मकं हेतुज्ञानं प्रमाणवदिति वचनस्य प्रमाण्यमेषितव्यं ।। ११० ॥
पुनरपि वचोलक्षणमाह
अष्टशती-प्रत्यक्षादिप्रमाणविषयभूतं विरुद्धधर्माध्यासलक्षणं वाऽविरुद्धं वस्तु । तदेवेत्येकांतेन प्रतिपादयंती मिध्यैव भारती कथमनयार्थदेशनं ? इत्येकांतवाक्यार्थानुपपत्तिरालक्ष्यते ॥ ११०॥
वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरंकुशः।
आह च स्वार्थसामान्य तादृग्वाच्यं खपुष्पवत् ॥ १११ ॥ बत्ति:-याचः स्वभाव आत्मीयं रूपमन्येषां वाच्यत्वेनाभिप्रेततराणां वाग्वचनं तस्या अर्थस्तस्य प्रतिषेधो निराकरणं तस्मिन् निरंकुशः समर्थो घटशब्दः पटादीनां निराकरणं करोति स्वार्थ च प्रतिपादयति अतोऽनेकांतः, यदि पुनः सर्वथा स्वस्य ज्ञानार्थस्य बाह्यार्थस्य सामान्यं परापररूपमपोहं चार्वाक आह आचष्ट इत्यभ्युपगमः स्यात् तादृग्वाच्यं विशेषरहितं सामान्यं खपुष्पवत् गगनकुसुमसमानमतो न किंचित्स्यात् ॥१११।।
Loading... Page Navigation 1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90