SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ समातनजनेप्रथमालायां अष्टशती - इति स्वोक्तपरिच्छेद विहितेयमाप्तमीमांसा सर्वज्ञविशेषपरीक्षानिःश्रेयसकामिनां । अभव्यान तदनुपयोगात् । तत्त्वेतरपरीक्षां प्रति भव्यानामेव हि नियताधिकृतिः ॥ ११४ ॥ श्रीबर्द्धमानमकलंकमानिंद्यवंद्य - पादारविंदयुगलं प्रणिपत्य मूर्ध्ना *भव्यैकलोकनयनं परिपालयतं स्याद्वादवर्त्म परिणौमि समंतभद्रं ॥ १ ॥ -इत्यष्टशती समाप्ता । जयति जगति क्लेशावेश प्रपंच हिमांशुमान् विहतविषमैकांतध्वांतप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मतांबुनिधेर्लवान् स्वमतमतयस्तीर्थ्या नाना परे समुपासते ।। ११५ ॥ वृत्तिः- : -- यस्य भट्टारकस्य मतांबुधेरागमोदधेलवान् कणान् अधृष्टानखरीकृतान् परे नाना तीर्थ्याः प्रवादिनः सुगतादयः स्वमते मतिर्येषां ते स्वमतमतयः कृतात्मबुद्धयः समुपासते सेवते सोऽजो जातिजरा- मरणरहितो यतिपतिः प्रधानस्वामी जयति त्रैलोक्यस्वामित्वं करोति बाह्याभ्यंतरशत्रून् निहत्य जयति लोके । पुनरपि किंविशिष्टः ? क्लेशस्य दुःखस्य आवेशः कदर्थना तस्य प्रपंचो विस्तारः स एव हिमं प्रालेयः तस्यांशुमानादित्यः । एकांत एव ध्वांतं तमः विषमं च तदेकांतध्वांतं च विषमैकांतध्वांतं प्रमाणं च नयाश्च प्रमाणनया उक्तलक्षणा विहतं निराकृतं विषमैकांतध्वांतं यैस्ते तथाभूतास्ते च ते प्रमाणनयाश्च त एवांशवः किरणास्ते विद्यते यस्य स तथाभूत इति यतिपतेर्विशेषणं ॥ ॥ ११५ ॥ ॥ श्रीमत्समंतभद्राचार्यस्य त्रिभुवनलब्धजयपताकस्य प्रमाणनयचक्षुषः स्याद्वादशरीरस्य देवाममाख्यातेः संक्षेपभूतं विवरणं कृतं श्रुतविस्मरणशीलेन वसुनंदिना जडमतिनाऽऽत्मोपकाराय । समंतभद्रदेवाय परमार्थविकल्पिते । समंतभद्रदेवाय नमोऽस्तु परमात्मने ॥ १ ॥ १ नैतत्पद्यस्थाष्टशत्युपलब्धा । सुखाय जायते लोके वसुनंदिसमागमः । तस्मात् निषेव्यतां भव्यैर्वसुनंदिसमागमः ॥ २ ॥ इति श्रीवसुनंद्याचार्यकृता देव गमवृत्तिः समाप्ताः । समाप्तोऽयं ग्रंथः । A
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy