________________
सनातनजैनग्रंथमाला
स्याद्वादपतिश्रीविद्यानंदस्वामिविरचिता
प्रमाणपरीक्षा।
जयंति निर्जिताशेषसर्वथैकांतनीतयः ।
सत्यवाक्याधिपाः शश्वविद्यानंदा जिनेश्वराः ॥१॥ अथ प्रमाण-परीक्षा-तत्र प्रमाणलक्षणं परीक्ष्यते__'सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः । सन्निकर्षादिरज्ञानमपि प्रमाणं स्वार्थप्रमितौ साधकतमत्वात् ! इति नाशंकनीयं । तस्य स्वामितौ साधकतमत्वासंभावात् । न ह्यचेतनोऽर्थः स्वप्रमितौ करणं पटादिवत् । सोऽर्थप्रमितौ करणमित्यप्यनालोचितवचनं नैयायिकानां स्वप्रमितावसाधकतमस्यार्थप्रमिती साधकतमत्वानुपपत्तेः । तथाहि-न सन्निकर्षादिरर्थप्रमित्तौ साधकतमः स्वप्रमितावसाधकतमत्वात्पटबत् । प्रदीपादिभिर्व्यभिचारः साधनस्य ! इति न मंतव्यं । तेषामर्थपरिच्छत्तावकरणत्वात् । तत्र नयनमनसोरेव करणतया स्वयमभिमतत्वात् । प्रदीपादीनां तत्सहकारितयोपचारतः करणव्यवहारानुसरणात् । न चोपचारतोऽर्थप्रकाशन एव प्रदीपादिः करणं न पुनः स्वप्रकाशन इति मन्यमानो निर्मलमना मनीषिभिः, अनुमन्यते । नयानादेः-अर्थसंवेदनमिव प्रदीपादिसंवेदनमप्युपजनयतः प्रदीपादीनां सहकारित्वाविशेषात्। तेषामर्थप्रकाशनवत् स्वप्रकाशनेऽपि करणतोपचारव्यवस्थितेः । नयनादिना-अनेकांत इत्यपि न मननीयं तस्याप्युपकरणरूपस्याचेतनस्वभावस्यार्थप्रतिपत्तौ करणतोपचारात। परमार्थतो भावेंद्रियस्यैव-अर्थग्रहणशक्तिलक्षणस्य साधकतमतया करणताध्यवसनात् । न चैतदसिद्धं विशुद्धधिषणजनमनसि युक्तियुक्ततया परिवर्तमानत्वात् । तथाहि-~-'यदसनिधाने कारकांतरसन्निधानेऽपि यन्नोपपद्यते तत् तत्करणकं । यथा कुठारासन्निधाने काष्टछेदनमनुत्पद्यमानं कुठारकरणकं । नोत्पद्यते च भावेंद्रियासमवधानेऽर्थसंवेदनमुपकरणसद्भावेऽपि, इति तद्भावेंद्रियकरणकं । बहिःकरणसन्निकर्षाधीनतायां हि पदार्थसंवेदनस्य, नयनसन्निकर्षात् कलश इव नभसि नायनसंवेदनोदयः कुतो न भवेत् । न हि नयननभसोरन्यतरकर्मजः संयोगो न विद्यते एवेति वक्तुं युक्तं सकलमूर्तिमद्व्यसंयोगान्नभसि सर्वगतत्वसाधनविरोधात् । न च नयनममूर्तिमदेव ? तस्य परैौतिकतयोधगतत्वात। पौगलिकतयास्माभिरुपकरणस्याभिमतत्वात। नन नभसि नयनसन्निकर्षस्य योग्यताविरहान संवेदननिमित्तता ? इत्यपि न साधीयः तद्योग्यताया एव साधकतमत्वानुषंगात् । का चेयं सन्निकर्षस्य योग्यता नाम : विशिष्ट शक्तिरिति चेत् ! सा तर्हि सहकारिसन्निधिलक्षणा अनुमंतव्या ।