________________
सनातनजैनग्रंथमालायां'सहकारिसांनिध्यं शक्तः' इत्युद्योतकरवचनात् । सहकारिकारणं च द्रव्यं गुणः कर्मादि वा स्यात् ? न तावदात्मद्रव्यं सहकारि. तत्सन्निधानस्य नयननभःसन्निकर्षेऽपि समानत्वात् । एते. न कालद्रव्यं दिग्द्रव्यं च सहकारि निराकृतं तत्सान्निध्यस्यापि सर्वसाधरणत्वात् । मनोद्रव्यं सहकारि इत्यपि न संगतं तत्सन्निधरपि समानत्वात् । कदाचित्तद्गतमनसः पुरुषस्याक्षार्थसन्निकर्षस्य संभवात् । एतेन आत्मा मनसा युज्यते, मन इंद्रियण, इंद्रियमर्थेनेति चतुष्टयसन्निकर्षोऽर्थप्रमितौ साधकतम इति सामिग्रीप्रमाणवादो दूषितः-तत्सामिग्यश्च नभसि सद्भावात् । कालादिनिमित्तकारणसामिग्रीवत् । यदि पुनस्तेजोद्रव्यं सहकारि तत्सन्निधानात् चाक्षुषादिज्ञानप्रभवादिति मतं तदापि न विशेषः घटादाविव गगनेऽपि लोचनसन्निकर्षस्यालोकसन्निधिप्रसिद्धः संवेदनानुषंगस्य दुर्निवारत्वात् । अथादृष्टविशेषो गुणः सहकारी तत्सान्निध्यं संयुक्तसमवायेन, चक्षुषा संयुक्त पुरुषे त्वदृष्टविशेषस्य समवायात् इति मन्यध्वं
तर्हि कदाचिन्नभास नायनंसवेदनोदयः कुतो न भवेत् । सर्वदा सर्वस्य तत्रादृष्टविशेषस्य सहकारिणोऽसनिधानात् इति चेत् ! कथमेवमीश्वरस्य नभास चक्षुषा ज्ञानं श्रोत्रादिभिरिव घटते ? समाधिविशेषोपजीनतधर्मविशेष्यनुगृहीतेन मनसा गगनाद्यशेषपदार्थसंवेदनोदये तु महेश्वरस्य बहिःकरणमनर्थकतामियात् । फलासंभवात् । बहिःकरणरहितस्य च नांतःकरणमुपपद्यत परनिवृत्तात्मवत् । ततः कथमंतःकरणेन धर्मादिग्रहणं मनसोऽसंभवे च न समाधिविशेषस्तदुपजनितधर्मविशेषो वा घटामाव्यते तस्यात्मांतःकरणसंयोगनिबंधनात् ।
स्यान्मतं शिशिररश्मिशेखरस्य समाधिविशेषसंततिधर्मविशेषसंततिश्च सर्वार्थज्ञानसंततिहेतुरनाद्यपर्यवसाना, सततमेनोमलैरस्पृष्टत्वात् । तस्य संसारिसादिमुक्तिविलक्षणत्वात् सर्वथा मुक्ततयैव प्रसिद्धत्वात् इति तदप्यसमीचीनं एवमीश्वरस्यापि एनोमलविलयादेरेवार्थसंवेदनोद्भवप्रसक्तेः । सततमेनोमलाभावो हि यथा सततमर्थज्ञानसंतानहेतुरुररीक्रियते तथा कादचित्कैनोमलाभावः कदाचिदर्थप्रमितिनिमित्तयुक्तमुत्पश्यामः तस्यैव सन्निकर्षसहकारितोपपत्तेः। तत्सान्निध्यस्यैव च सन्निकर्षशक्तिरूपत्वसिद्धेः। तद्भावादेव चं नयनसन्निकर्षेऽपि नभसि संवेदनानुत्पत्तिघटनात् । तत्र विशिष्टधर्मोऽपि न पापमलापायादपरः प्रतिपद्यते भावांतरस्वभावत्वादभावस्य, निःस्वभावस्य सकलप्रमाणगोचरातिक्रांतत्वेन व्यवस्थापयितुमशक्यत्वात् इति पुरुषगुणविशेषसद्भाव एव पापमलाभावो विभाव्यत। स चात्मविशुद्धिविशेषो ज्ञानावरणवीर्यातरायक्षयोपशमभेदः स्वार्थप्रमितौ शक्तिर्योग्यतेति च स्याद्वादवेदिभिरभिधीयते । प्रमातुरुपलब्धिलक्षणप्राप्ततापि नातोतिरभावमनुभवति पुंसः संवेदनावरणवीर्यांतरायलक्षणपापमलापगमविरहे कचिदुपलब्धिलक्षणप्राप्ततानुपलब्धेः, नयनोन्मीलनादिकर्मणो दृश्यादृश्ययोः साधारणत्वात् प्रद्योतादिकरणसाकल्यवत् । एतेन नयनोन्मीलनादिकर्मसन्निकर्षसहकारिवषयगतं चोपलभ्यत्वसामान्यमिति प्रत्याख्यातं तत्सन्निधाने सत्यपि क्वचित्कस्यचित् प्रमित्यनुपपत्तेः कालाकाशादिवत् । न हि तत्रोपलभ्यत्वसामान्यमसंभाव्यं योगिनोऽप्यनुपलब्धिप्रसंगात् । अस्मादृशापेक्षयोपलभ्यत्वसामान्यमन्यदेव योगश्विरापेक्षादुपलभ्यतासामान्यादितिचेत् ! तत्किमन्यत्! अन्यत्र योग्यताविशेषात् । प्रतिपुरुषं भेदमास्तिघ्नवानादिति(?) स एव प्रमातुः प्रमित्युपजनने साधकतमोऽनुमंतव्यः सन्निकर्षादौ सत्यपि कचित्संविदुपजननामावविभावनात् । स च योग्यताविशेषः स्वार्थग्रहणशक्तिः । आत्मनो भावकरणं ज्ञानमेव फलरूपत्वात् स्वार्थज्ञानात्कथंचिदभिन्नत्वात् सर्वथापि ततो भेदे नात्मस्वभावत्वोपत्तेः । न चैवमुपगंतुं युक्तं ! आत्मन एवोभयनिमित्तवशात्तथापरिणामात् । आत्मनो हि जानात्यनेनेति करणसाधनात भेदोपवर्णनं कथं चिदभिन्नकर्तृकस्य करणस्य प्रसिद्धः अग्निराष्ण्येन दहतींधनमिति यथा । स्वातंत्र्यविवक्षायां तु जानातीति ज्ञानमात्मैव, कतृसाधनत्वात्तदात्मज्ञानयोरभेदप्राधान्यात् आत्मन एव स्वार्थग्रहणपरिणाममापन्नस्य ज्ञानव्यपदेशसिद्धेः औष्ण्यपरिणाममापनस्याग्नेरोष्ण्यव्यपदेशवत् । तेन ज्ञानात्मा ज्ञानात्मना ज्ञेयं जानाति इति व्यवहारस्य प्रतीतिसिद्धत्वात्। यथा च