Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 53
________________ ४४ सनातनजैनग्रंथमालायांकरणोत्पत्तरात्मनो धर्माधर्मयोश्च स्वयमचेतनत्वात् विचित्रोपभोगयोग्यतनुकरणादिसंपादनकौशलासंभवात। तन्निमित्तमात्मांतरं मृत्पिडादिकुलालवदिति चेन्न तस्यापि वितनुकरणस्य तत्कृतेतरसंभवात । तादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वमविप्रतिषिद्धं सर्वथा दृष्टांतव्यतिक्रमात् । स्थित्वा प्रवर्तमानार्थक्रियादिचेतनाधिष्ठानादिति नियमे पुनरीश्वरादेरपि माभूत् । नायं प्रसंगो बुद्धिमत्त्वादितिचेत् ? तत एव तर्हि प्रहीणतनुकरणादयः प्राणिनो माभूवन् । कर्मणां वैचित्र्यादिति चेत् तेषामीश्वरज्ञाननिमित्तत्वे समानः प्रसंगः । तदनिमित्तत्वे तनुकरणादेरपि तन्निमित्तत्वं माभूद्विशेषाभावात् । अर्थक्रियादेरपि ताभ्यामनैकांतिकत्वं । ततः कर्मबंधविशेषवशात् चित्राः कामादयः ततः कर्मवैचित्र्यं । नहि भावस्वभावोपलंभ: करणीयः अन्यत्रापि तत्प्रसंगनिवृत्तेः । न तर्हि केषांचिन्मुक्तिरितरेषां संसारश्च । कर्मबंधनिमित्तविशेषादिति चेन्न तेषां शुद्धयशुद्धितः प्रतिमुक्तीतरसंभवात्-आत्मनां ॥ ९९ ॥ शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । - साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ १० ॥ वृत्तिः-शुद्धयशुद्धी ये शक्ती भव्याभव्यत्वरूपे ते अनादितत्त्वार्थश्रद्धानाश्रद्धानोग्यके कटुकेतरमुद्गपाक्यापाक्यशक्तिवत् तयोर्भव्यत्वाभव्यत्वशक्त्योर्व्यक्ती तत्त्वार्थश्रद्धानप्रियधर्मत्वादिपरिणत्यपरिणती साद्यनादी । कुतोऽयं शक्तिभेदोऽतर्कगोचरः स्वभावो यतः ॥ १० ॥ एवं तावत्प्रमाणपरतन्त्रप्रमेयविचारः कृतः । अधुना प्रमाणत्वनिरूपणार्थमाह अष्टशती-भव्येतरस्वभावो तेषां सामर्थ्यासामर्थ्य माषादिपाक्यापरशक्तिवत् । शक्तः प्रादुर्भावापेक्षया सादित्वमेवमभिसंधिनानात्वं शुद्धयशुद्धिशक्तयोरिति भेदमाचार्यः प्राह । ततोऽन्यत्रापि साधनादी प्रकृतशक्तयोर्व्यक्ती । कुतः शक्तिप्रतिनियम इति चेत् ? न हि भावस्वभावाः पर्यनुयोक्तव्याः ॥ १० ॥ तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनं । क्रमभावि च यज्शानं स्याद्वादनयसंस्कृतं ॥ १०१॥ वृत्तिः-तत्त्वज्ञानं परार्थबोधः पुनरपि कथंभूतं युगपत्सर्वार्थमवभासत इति युगपसर्वभासनं अक्रमेण परिच्छेदात्मकमित्यर्थः तत्प्रमाणमेव । क्रमभावि च तज्ज्ञानं छद्मस्थीयं चक्षुरादिकं चकारादक्रमभावि च दीर्घशष्कुल्यादिभक्षणे संभवात् । सर्वथा सदसदेकानेकनित्यानित्यादिसकलैकांतप्रत्यनीकानेकांततत्त्वविषयः स्याद्वादो जातियुक्तिनिबंधनो वितर्को नयस्ताभ्यां संस्कृतं प्रमाणगोचरं नीतं तदपि प्रमाणं स्याद्वादनयसंस्कृतं यतस्ते तव ॥ १०१॥ प्रमाणफलं दर्शयन्नाह- अष्टशती-बुद्धरनेकांतात् येनाकारेण तत्वपरिच्छेदः तदपेक्षया प्रामाण्यं । ततः प्रत्यक्षतदाभासोंरपि प्रायशः संकीर्णा प्रामाण्येतरस्थितिरुन्नेतव्या । प्रसिद्धानुपहतेंद्रियदृष्टेरपि चंद्रार्कादिषु देशप्रत्यासत्याद्य भूताकारावभासनात् । तथोपहताक्षादेरपि संख्यादिविसंवादेऽपि चंद्रादिष्वभावतत्त्वोपलंभात् । तत्प्रकर्षापेश्या व्यवदेशव्यवस्था गंधद्रव्यादिवत् । तथानुमानादेरपि कथंचिन्मिथ्याप्रतिभासेऽपि तत्त्वप्रतिपस्यैव प्रामाण्यं । एकांतकल्पनायां तु नांतर्बहिस्तत्त्वसंवेदनं स्वयमद्वयादेवयादिप्रतिभासमानात् रूपादि स्वलक्षणानां च तथैवादर्शनात् यथा व्यावय॑ते । तद्विशेषोपलंभाभ्युपगमेऽपि तद्व्यवसायवैकल्ये कचिद्धर्माधर्मसंवेदनवत् परीक्षत्वोपपत्तेः । विकल्पानामतत्त्वविषयत्वात् कुतस्तत्त्वप्रतिपत्तिः ? मणिप्रदीपप्रभादृष्टांतोऽपि स्वपक्षघाती माणप्रभादर्शनस्यापि संवादकत्वेन प्रामाण्यप्राप्त्या प्रमाणांतर्भावविघटनात् । न हि प्रत्यक्षं स्वविषये विसंवादनात् शक्तिकादर्शनवद्रजतभ्रांतौ । नापि लैंगिकं लिंगलिंगिसंबधाप्रतिपत्तेः-अन्यथा दृष्टांतेतरयोरेकत्वात् किं केन कृतं स्यात् । कादाचित्कार्थप्राप्तरारेकादेरपि संभवात् ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90