Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 51
________________ सनातनजनंग्रथमालायो- अष्टशती-परत्र सुखदुःखोत्पादनात् पुण्यपापबंधै .ते कथमचेतना न बध्यरन् ? वीतरागो वा ! "तन्निमित्तत्वात् ॥ ९२॥ पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि।। वीतरागो मुनिर्विद्वांस्ताभ्यां युंज्यानिमित्ततः ॥ ९३ ॥ 'वृत्तिः-स्वस्मिन् दुःखात् ध्रुवं निश्चितं पुण्यं यदि स्यात्तस्मिन्नेवात्मनि सुखाद्धेतोर्धवं पापं च यदि स्यात् । ततः किं स्यात् ! ताभ्यां वीतरागो मुनियुंज्याद्बद्धो भवेत् । कुतः? निमित्तत्वात् ॥ ९३ ॥ अथोभयकांतस्तद्भयादिष्यते तत्रापि दोष एव विरोधात् । नोप्यवाच्यत्वं वचनविरोधात् अष्टशती-आत्मसुखदुःखाभ्यां पापेतरकांतकृतांते पुनरकषायस्यापि ध्रुवमेव बंधःस्यात् ततो न कश्चिन्मोक्तुमर्हति तदुभयाभावसंभावात् ॥ ९३ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९४ ॥ वृत्तिः-सुगमं ॥ ९४ ॥ कथं तद्यत आहअष्टशती प्रस्तुतेकांतद्वयसिद्धांते व्याहतेःअनभिधेयतायां-अनभिधेयाभिधानविरोधात् कथं चिदेवेति युक्तं । विशुद्धिसंक्लेशांगं चेत् स्वपरस्थं सुखासुखं । पुण्यपापास्रवौ युक्तौ न चेद्वयर्थस्तवार्हतः ॥ ९५ ॥ वृत्तिः-ख आत्मा परोऽन्यस्तयोस्तिष्ठतीति स्वपरस्थं सुखं चासुखं च सुखासुखं जीवप्रदेशाहादनानाहादनं । विशुद्धिः प्रमोदादिशुभपरिणामः । यद्यपि निरवशेषरागादिविरहलक्षणायां विशुद्धौ विशुद्धिशब्दो वर्तते तथापि कुशलशब्दवत् शुभपरिणामादो वर्तमानो विशुद्धिशब्दो गृह्यते । संक्लेशः-आर्तरौद्रध्याने तयोरंगं कारणं विशुद्धिसंक्लेशांगं-चेद्यदि स्वपरस्थं सुखासुखं विशुद्धिसंक्लेशालंबनं यदि भवति तदा पुण्यं च पापं च तयोरास्रवौ युक्तौ । न चेदेवं यद्येवं न स्यात् । पुण्यात्रवः पापानवश्च व्यर्थो निष्फलः । अर्हतो वीतरागस्य तवेव वा शुष्ककुड्यनिपतितचूर्णमुष्टिवत् बंधाभावात् । एतेन मस्करिपूरणमतं निराकृतं भवति । सिद्धेषु सक्लेशकारणाभावात् ॥ ९५ ॥ अथ पुण्यपापानवकारणमज्ञानमिष्यते चेत्तन्मतनिराकरणायाह अष्टकाती-आत्मनः परस्य वा सुखदुःखयोर्विशुद्धिसक्केशांगयोरेव पुण्यपापासवहेतुत्वं नचान्यथा अतिप्रसंगात् । आर्तरौद्रध्यानपरिणामः संक्लेशः तदभावो विशुद्धिः-आत्मनः स्वात्मन्यवस्थानं ॥ ९५॥ इत्याप्तमीमांसाभाष्ये नवमः परिच्छेदः । अज्ञानाच्चेद्धवो बंधो ज्ञेयानंत्यान्न केवली । शानस्तोकाद्विमोक्षश्वेदज्ञानाबहुतोऽन्यथा ॥ ९६ ॥ बृत्तिः-यद्यज्ञानाज्जाड्यस्वरूपाद्वंधो ध्रुवो न केवली मुक्तः । कुतः ज्ञेयानंत्यात्प्रमेयस्यानंत्यं यतः । अथ कदाचित् ज्ञानस्तोकाद्बोधनिर्हासान्मोक्षोऽभ्युपगम्यते चेद्बहुतो विपुलादज्ञानादन्यथाऽन्येन प्रकारेणा

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90