Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
२८
सनातनजैनग्रंथमालायां- . तद्वचनविरोधं दर्शयति--
अष्टशती-संतानादेरयोगात, इति कर्तव्यतासु चिकीर्षोविनाशात् कर्तुरचिकीर्षत्वात् तदुभयावनिमुक्तस्य बंधात तैदविनिर्मुकेश्च, यमनियमादेराभिधेयत्वं कुर्वतो वा यत्किंचनकारित्वं ॥ ५१ ॥
अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः ।
चित्तसंततिनाशश्च मोक्षो नाष्टांगहेतुकः ॥ ५२ ॥ बत्तिः--यो हिंसाया हेतुनिर्मितं नासौ हिंसकः प्राणवियोजकः कुतोऽहेतुकत्वान्नाशस्य । यदेतत्प्राणिनो मरणनिमित्तं यच्च मोक्षस्तैरभ्युपगतः चित्तानां रूपविज्ञानक्षणानां संततिनैरंतर्य तस्य नाशः क्षयः प्रदीपनिर्वाणरूपो वा । अष्ट अंगान्यवयवा यस्य स हेतुर्यस्यासौ अष्टांगहेतुकः । कानि तान्यष्टांगानि सम्यक्त्वसंज्ञा-संज्ञि-वाक्कायकर्म-अंतर्व्यायाम-स्मृति-समाधिलक्षणानि । सोऽपि न स्यात् । कुतः स्वत एव-हेतुमंतरेणाभ्युपगतत्वात् ॥ २॥
अथ मतं स्वभावविनाशार्थ न निमित्तमस्माभिरिष्यते, किं तु विभागार्थमित्यत आह
अहशती-अहेतुं विनाशमभ्युपगम्य कस्य चिद् यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ? तथा निर्वाणं संतानसमूलप्रहरणलक्षणं सम्यक्त्वसंज्ञासंज्ञिवाकायकर्मीतायामजीवस्मृतिसमाधिलक्षणाष्टांगहेतुकं ? तदन्यो ऽन्यं विप्रतिषेधात् ॥५२॥
विरूपकार्यारम्भाय यदि हेतुसमागमः ।
आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३ ॥ वृत्ति-विरूपकार्य विभागसन्तानः कपालादिस्तस्यारम्भस्तस्मै विरूपकार्याग्भाय । यदि हेतोः समागमः कारणापेक्षणं ।तहसौ विरूपकार्यारम्भ आश्रयिभ्यामुत्पादविनाशाभ्यामनन्योऽभिन्नः । कुतः? अविशेषादभेदात् । अविशेषेणाभेदोनोपलब्धिराश्रयिभ्यो यतः । अयुक्तवत् यथा ग्राह्यग्राहकाकारा सहायुतसिद्धिः ।।
चित्तविशेषरूपरसादिबद्धान् प्रागुत्पादादीनभ्युपगम्य क्षणिकवादे दूषणमभाणि । साम्प्रतं तु तेषामुत्पादादीनामसभवमेव दर्शयन्नाह
अष्टसती-विसभागसंतानोत्पादनाय हेतुसन्निधिर्न प्रध्वंसाय पूर्वस्य स्वरसनिवृत्तेः इति चेत् ? स पुनरुत्तरोत्पादः स्वरसतः किं न स्यात् विनाशहेतुवत् । स्वरसोत्पन्नमपि तदनंतरभावित्वात् तेन व्यपदिश्यते ? इति चेत् इतरत्र समानं | परमार्थस्तदहेतुकत्वं, प्रतिपत्रभिप्रायाविशेषेऽपि स्वतः प्रहाणवादी न शक्नोत्यात्मानं न्यायमार्गमनुकारयितुं सर्वदा विरूपकार्यत्वात् । सभागविसभागावक्तृप्ति प्रतिपत्रभिप्रायवशात् समनुगच्छन् सहेतुकं विनाशं ततः किं नानुजानीयात् । नच समनंतरक्षणयोर्नाशोत्पादौ पृथग्भूतौ मिथः स्वाश्रयतो वा यौ समं सहेतुकेतरौ स्तां । प्रत्यभिधानभेदेऽपि ग्राह्यग्राहकाकारवत् स्वभावप्रतिबंधात् संज्ञाछंदमति• स्मृत्यादिवत् सत्यपि भेदे समकालभाविनोः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा कार्यरूपादेवि कारणं।
तस्मात्कायकारणयोरुत्पादविनाशौ न सहेतुकाहेतुको सहभावाद्रसादिवत् । न तस्य किंचिद्भवति । न भवत्येव केवलमिति चेत् भवत्येव केवलमिति समानं । तस्मादयं विनाशहेतुर्भावमभावीकरोति न पुनरकिंचित्करः, कार्योत्पत्तिहेतुर्वा, यद्यभावं न भावी कुर्यात भावं करोतीति कृतस्य करणायोगात्-अकिंचित्करः । तदतत्करणादिविकल्पसंहतिरुभयत्र सदृशी ॥ ५३ ॥
स्कंधाः संततयश्चैव सवृतित्वादसंस्कृताः। स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ १४ ॥
१ तस्थ बदस्य अविनिर्मुक्तरित्यर्थः ।
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90