Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
माप्तमीमांसा।
. ३३ सत्यमव नतत्प्रामणं भावात् [ ! ] पुनरपि दुषणमाह--
अष्टशती-कार्यकारणादेरभेदैकांते धारणाकर्षणादयः परमाणूनां संघातेऽपि माभूवन् विभागवत् । नाहितोऽपि विशेषः तेषां विभागैकांतं निराकरोति । तत एवान्यत्रापि नेष्यते पृथिव्यादि भूतचतुष्टयस्थितिरेवं विभ्रममात्रं प्राप्नोति । इष्टत्वाददोष इति चेत् न प्रत्यक्षादिविरोधात् ॥ ६४ ॥
कार्यभ्रांतरणुभ्रांतिः कार्यलिंगं हि कारणं ।
उभयाभावतस्तत्स्थं गुणजातीतरच न ॥ ६८ ॥ वृत्तिः-अणूनां यदेतत्कार्य स्थूलघटपटादिकं तस्य यदि भ्रांतिर्विभ्रमस्तदानीं कार्यधांतेरणूनामपि भ्रांतिः । यतः कार्यलिंगं कारणं कार्यद्वारेण कारणस्यावगमो नान्यथा, अतोऽन्यतराभावे उभयोरप्यभावोऽवि नाभावनियमात् । उभयाभावाच तयोः स्थितं गुणो रूपादिः, जातिः सामान्यं इतरच क्रिया एतत्ससुदितं न स्यात् । न चैतदिष्टं सर्वप्रमाणप्रसिद्धत्वात् ॥ ६६ ॥
___ अष्टशती-चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभेदैकांतवाद प्रतिहति तद्विपरीतानुपलब्धिर्वा तत्रैतत्स्यात् । भ्रांतैकत्वादिप्रतिपत्तिरिति तन्न परमाणूनां चक्षुरादिबुद्धौ स्वरूपमनर्पयतां कार्यलिंगाभावात् । तत्त्वभावाभ्युपगमानुपपत्तस्तद्वयाभावात् वृत्तयो जातिगुणक्रिया न स्युः, व्योमकुसुमसौरभवत् ॥ ६८॥
एकत्वेऽन्यतराभावः शेषाभावोऽविनाभुवः ।
द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥६९ ॥ वृत्तिः-कार्यकारणयोरेकत्वे द्वयोर्मध्येऽन्यतराभावस्तस्य चाभावे द्वितीयस्य चाभावः । कुतः ? अविनाभावनियमात् । न ह्येकमंतरेणापरं भवति । द्वित्वमिति च या संख्या तस्याश्च विरोधोऽघटना | अथ मत संवृत्या सर्व युक्तं ? सा संवृतिर्मुषैव । व्यलीकैव ततो न किंचित् स्यात् बंध्यासुतपरिकल्पितरूपव्यावर्णनषत् ॥ ६९॥
उभयकांतवादिनं प्रत्याह--
अष्टशती-आश्रयाश्रयिणोरेकत्वे तदन्यतराभावस्ततः शेषाभावस्तत्स्वभावाविनाभावित्वात् बध्यासुत रूपसंस्थानवत । तथा च सति द्वित्वसंख्यापि न स्यात् । तत्र संवृतिकल्पना शून्यतां नातिवर्तते परमार्थविपर्ययाद् व्यलीकवचनार्थवत् ॥ ६९ ॥ ।
विधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७० ॥ वृत्तिः-अवयवावविव्यतिरेकाव्यतिरेकैकांती न यौगपद्येन संभविनी विरोधात्-स्ववचनविरोधात् । अनमिलाप्यकांतोऽपि न संभवति । स्याद्वादाभ्युपगमे तु न दोषः कथंचित् तथाभावोपलब्धेः ॥ ७० ॥
तथैव स्पष्टयति-- .
.. अष्टसती-अवयेवतरादीनां व्यतिरेकाऽव्यतिरेकैकांतौ न वै यौगपद्येन संभविनी विरोधात् । तथानभिलाप्यतैकांते स्ववचनविरोधः तदभिलाप्यत्वात् । स्याद्वादाभ्युपगमे तु न दोषः कथंचित्तथाभावोपलब्धेः ।। ७०।।
द्रन्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥७१ ।।
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90