Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
६
सनातनजैनग्रंथमालायां____ अष्टशती-युक्तीतरकांतद्वयाभ्युपगमोऽपि मास्मभूत्-विरुद्धयोरेकत्र सर्वथाऽसंभवात् । तदवाच्यत्वे ऽपि पूर्ववत् ॥ ७७ ॥
वक्तर्यनाप्ते यदेतोः साध्यं तद्धेतुसाधितं ।
आप्ते वक्तरि तद्वाक्यात् साध्यमागमसाधितं ॥ ७८ ॥ वृत्तिः-यो यत्राविसंवादकः स तत्राप्तः । ततः परोऽनाप्तः अनाप्ते वक्तरि तत्त्वस्योपदेष्टरि हेतोरनु. मानाद्यत्साध्यं शक्याऽभिप्रेतं प्रसिद्धं तद्धेतुसाधितं-लिंगात्प्रतिपादितं । आप्ते वक्तरि वाक्याद्वचनाद्यत्साध्यं तदागमसाधितं प्रवचनप्रतिपादितं प्रमाणभूतं प्रवचनं हि तत् । अनाप्ते पुनर्विसंवादकं तस्माद्धेतुमंतरेण न तत्सेत्स्यति ।। ७८ ॥
अंतस्तत्त्वमेव तत्त्वमिति येषा मतं तन्निराकरणायाह--
अष्टशती यो यत्राविसंवादकः स तत्राप्तः । ततः परोऽनाप्तः । तत्त्वप्रतिपादनमसंवादः तदर्थज्ञानात् । तेनातींद्रिये जैमिनिः-अन्यो वा स्तुतिमात्रावलंबी नैवाप्तः तदर्थापरिज्ञानात्ताथागतवत् । न हि तादृशातींद्रियार्थज्ञानमस्ति दोषावरणक्षयातिशयाभावात् । श्रुतेः परमार्थवित्त्वं ततः श्रुतेरविसंवादनमित्यन्योऽन्यसंश्रितं स्वतः श्रुतेन वै प्रमाण्यमचेतनत्वात् घटवत् । सन्निकर्षादिभिरनैकांतिकत्वमयुक्तं तत्प्रामाण्यानभ्युपगमात् । अथापि कथंचित्प्रमाणत्वं स्यात् अविसंवादित्वात् श्रुतेरयुक्तमेव । तदभावात् तेनोपचारमात्रं च न स्यात् तदर्थबुद्धिप्रामाण्यासिद्धेः । आप्तवचनं तु प्रमाणव्यपदेशभाक् तत्कारणकार्यत्वात् तदतींद्रियार्थदर्शनोपपत्तेस्तदर्थज्ञानोत्पदनाच्च । नैतत् श्रुतेः संभवति सर्वथाप्तानुक्तेः पिटकत्रयवत् । वक्तृदोषात्तादृशाप्रामाण्यं तदभावाच्छृतेः प्रामाण्यामिति चेत् कुतोऽयं विभागः सिद्धयेत् अभ्युपगमानभ्युपगमाभ्यां क्वचित्पौरुषेयत्वमन्यद्वा व्यवस्थापयतीति सुव्यवस्थितं तत्त्वं । एतेन कर्तृस्मरणाभावादयः प्रत्युक्ताः वेदेतरयोरविशेषात् । इतरत्र बौद्धो वक्तेति चेत् तत्र कमलोद्भवादिरिति कथं न समानं । सूद्मपि गत्वा तदंगीकरणेतरमात्रे व्यवतिष्ठत् वेदाध्ययनवदितरस्यापि सर्वदाध्ययनपूर्वाध्ययनत्वप्रक्लक्तौ न वक्त्रं वक्रीभवति । तदतिशयांतराणां च शक्यक्रियत्वादितरत्रापि मंत्रशक्तेर्दर्शनात् सिद्धेऽपि तदनादित्वे पौरुषेयत्वाभावे वा कथमविसंवादकत्वं प्रत्येतव्यं । म्लेच्छव्यवहारादेस्तादृशो बहुलमुपलंभात् कारणदोषनिवृत्तेः कार्यदोषाभावकल्पनायां पौरुषेयस्यैव वचनस्य दोषनिवृत्तिः कर्तुर्वीतदोषस्यापि संभवात् तदध्येतृव्याख्यातृश्रोतृणां रागादिमत्त्वान्नेतरस्येति निश्शंकं नश्चेतः । वक्तृगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुर्ज्ञानवत् । तदोषानुविधानात् ततोऽनाप्तवचनानज्ञानमंधरूपदर्शनात् । तत्र यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं, अग्निर्हिमस्य भेषजमित्यादिवत् नाग्निहोत्रादि वाक्यसाधनं । सिद्ध पुनराप्तवचनत्वे यथा हेतुवादस्तथा आज्ञावादोऽपि प्रमाणं । ननु चापौरुषेयत्ववदाप्तशासनमप्यशक्यव्यवस्थं ? उक्तमत्र सर्वथैकांतवादानां स्याद्वादप्रतिहतत्वात् इति । तत्राप्तिः साक्षात्करणादिगुणः संप्रदायाविच्छेदो वा अन्यथाऽधपरंपरयाऽप्रतिपत्तेः ।। ७८ ॥
इत्याप्तमीमांसाभाष्ये षष्ठः परिच्छेदः समाप्तः ॥
अंतरंगार्थतेकांत बुद्धिवाक्यं मृषाखिलं ।
प्रमाणाभासमेवातस्तत्प्रमाणादृते कथं ॥ ७९ ॥ वृत्तिः-अंतरभ्यंतरमगं कारणं यस्य स चासावर्थश्च तस्य भावोंऽतरंगार्थता सैवैकांतो मिथ्यात्वं तस्मिन् । बुद्धिश्च बहिरर्थपरिच्छेदिका। वाक्यं चानुमाननिमित्तं परार्थ । द्वंद्वैकवद्भावः । तदखिलं निरवेशषं
Loading... Page Navigation 1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90