Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
३८
सनातनजेनग्रंथमालायांथंप्रकाशकानां सर्वेषां निरवशेषाणां कार्यस्य सिद्धिनिष्पत्तिः व्यवहारसिद्धिर्भवेदित्यर्थः । कस्मात्प्रमाणाभासनिहवात् प्रमाणस्याभासो मिथ्यात्वं तस्य निहवो निराकरणं तस्मात् । एतदपि कुतः ? अंतस्तत्त्वे सति वहिरर्थस्य सिद्धिरसिद्धिश्च नान्यथा ॥ ८१॥ .
उभयैकांतप्रतिक्षेपायाह
अष्टशती-यत्किंचिच्चेतस्तत्सर्वं साक्षात्परंपरया वा बहिरर्थप्रतिबद्धं यथाग्निप्रत्यक्षतरसंवेदनं । तथा स्वप्नदर्शनमपि, चेतस्तथाविषयाकारनिर्भासात् । साध्यदृष्टांती पूर्ववदित्यत्रापि लोकसमयप्रतिबद्धानां परस्परविरुद्धशब्दबुद्धीनां स्वार्थसंबंधः परमार्थतः प्रसज्येत ।। ८१ ।।
. विरोधानोभायैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिनाच्यमिति युज्यते ॥ ८ ॥ वृत्तिः -पूर्ववत् ॥ भाव एव तत्त्वं नाभाव इति यस्य मतं तन्निराकरणायाह-- अष्टशती-अंतर्वहि यैकांतयोः सहाभ्युपगमो विरुद्धः तद्वाच्यतायां युक्तिविरोधः पूर्ववत् ॥ ८२ ।।
भावप्रमेयापेक्षायां प्रमाणाभासनिहवः।
बहिःप्रमेयापेक्षायां प्रमाणं तनिभं च ते ॥ ८३ ॥ वत्तिः-भावो ज्ञानं तदेव प्रमेयं तस्य तस्मिन्वाऽपेक्षाऽभ्युपगमस्तस्यामभ्युपगम्यमानायां । प्रमाणाभासस्य निहवो लोपः । कुतः ? ज्ञानस्य तदेतत्प्रामाण्यमप्रामाण्यं च बाह्यार्थापेक्षायां भवति नान्यथा इति ।
एतच्च मतं सर्वे वचो विवक्षामात्रसूचकमित्यस्य निराकरणायाह
अष्टशती-सर्वसांवत्तेः स्वसंवेदनस्य कथंचित्प्रमाणत्वोपपत्तेः तदपेक्षायां सर्वं प्रत्यक्षं न कश्चित्प्रमाणाभासः । तथानभ्युपगमेऽन्यतम एव बुद्धेनुमानं स्यात् । तत्रार्थज्ञानमलिंगं तदविशेषणासिद्धेविशेषे वा तदन्यतरेणार्थपरिसमाप्तेः किं द्वितीयेन । यच्चेदमर्थज्ञानं तच्चेदर्थस्वलक्षणं स्याद् व्यभिचारांत् अहेतुः, एतेनेंद्रियादि प्रत्युक्तं । प्रत्यक्षतरबुद्धयवभासस्य स्वसंवेदनात्प्रत्यक्षविरुद्धं । सुखदुःखादिबुद्धरप्रत्यक्षत्वे हर्षविषादादयोऽपि न स्युरात्मांतरवत् । एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तं यथाप्रतिज्ञमनुभवाभावात्। यथानुभवमनभ्युपगमात् सर्वत्र सर्वदा भूांतेरप्रत्यक्षत्वाविशेषात् कथंचिद्भांती एकांतहानेर्बिकल्पसंवेदनेऽपि विकल्पानतिवृत्तेः । तस्मात्स्वसंवेदनापेक्षया न किंचिद् ज्ञानं सर्वथा प्रमाणं । बहिरर्थापेक्ष्या तु प्रमाण तदाभासव्यवस्था तत्संवादकविसंवादकत्वात् क्वचित्स्वरूपे केशमशकादिज्ञानवत् ॥ ८३ ॥
जीवशब्दः सबाह्यार्थः संज्ञात्वा तुशब्दवत् ।
मायादिभ्रांतिसंज्ञाश्च मायायैः स्वैः प्रमोक्तिवत् ॥ ८४ ॥ वत्तिः-जीवस्य शब्दः संज्ञा देशामर्शकत्वाद्धटादिसंज्ञाः परिगृह्यते । सह बाह्येनार्थन वर्तत इति सबाह्यार्थः । कुतः ? संज्ञात्वात्सनामत्वाद्धेतुशब्दवत् । शब्दस्यार्थ स्त्रधा बहिरर्थो घटाद्याकारः स्वार्थो वा । तथा चोक्तम्-स्वार्थमभिधाय काऽप्यन्यत्र वर्तत इति । यद्येवं भ्रांतिसंज्ञा यास्ताः कथं ? ता अपि स्वैरात्मस्वरूपैथैर्मायायैर्माया स्वप्नेन्द्रजालादिः । भ्रांतिसंज्ञाः स्वार्थवत्यः प्रमाया उक्तियथा, प्रमाणशब्दः प्रमाणाभास शब्दश्च यथा स्वार्थप्रतिपादकः । अथवा सम्यक् ज्ञायतेऽनयेति संज्ञा तस्या भावः संज्ञात्वम् । तस्माद्दे शामर्शकत्वादन्येषामपि ग्रहणं प्रमाणतन्निबन्धनविचाराभ्यासदानफलादीनाम् । एतेषामन्यथाऽनुपपत्तेर्जीवादि शब्दः सबाह्यार्थः । अन्यथा एतेषामभावः स्यात् ॥ ८४॥
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90