Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
आप्तमीमांसा |
मृषा मिथ्या । प्रमाणमिवावभासत इति प्रमाणाभासमेव । यद्येवं कथं मुख्यप्रमाणमंतरेण तत्प्रमाणाभासं यस्मात्सति प्रमाणे प्रमाणाभासो नान्यथा ॥ ७९ ॥
अथ तं स बाह्याभ्यन्तरं ज्ञानमेवैतस्य मतस्य निराकरणार्थमाह-
३७
1
अत-तज्जन्मकार्यप्रभवादिवेद्यवेदकलक्षणमनेकांतिकमादर्श्य संवित्तिरेव खंडश: प्रतिभासमा - व्यवहाराय कल्प्यत इत्यभिनिवेशेऽपि प्रमाणं मृग्यं । क्षणिकत्वमनन्यवेद्यत्वं नानासंतानत्वमिति स्वतस्तावन्न सिद्धयति भ्रांतेः। तथात्मसंवेदनेऽपि व्यवसायवैकल्ये प्रमाणांतरापेक्षयानुपलंभकल्पत्वात् । न हि तथा बुद्धयः संविदंते यथा व्यावर्ण्यते । नापि परतः संबंधप्रतिपत्तेरयोगात् स्वांशमात्रावलंबिना मिध्याविकल्पेन प्रकृतितत्त्वव्यवस्थापने बाहरर्थेष्वप्यविरोधात् । कथंचिदत्र वेद्यलक्षणं यदि व्यवतिष्ठेत प्रकृतं कृतं स्यात् नान्यथा । न चानुक्तदोषं लक्षणमस्ति तत्संभवे नान्यत्र तदभावोऽभिधेयः तत्स्वपक्षपरपक्षयोः सिद्धयसिद्ध्यर्थं किंचित्कथंचित्कुतश्चित् आवितथं ज्ञानमादरणीयं अन्यथा शेषविभ्रमासिद्धेः । एतेन यद्ग्राह्यग्राहकाकारं तत्सर्वं भ्रांतं यथा स्वमेंद्रजालादिज्ञानं तथा प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यं ।। ७९ ।। साध्यसाधनविज्ञप्तर्यदि विज्ञप्तिमात्रता ।
न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥ ८० ॥
वृत्तिः - साध्यत इति साध्यं शक्यमभिप्रेतमप्रसिद्धं पक्षधर्मः । साध्यतेऽनेनेति साधन प्रकृ नाविनाभावि तयोराकारो विज्ञप्तिर्विज्ञानं तस्या यदि विज्ञप्तिमात्रता ज्ञानमात्रत्वं । न साध्यं न च हेतु: चकरान्नापि दृष्टान्तः । कुतः ? प्रतिज्ञादोषाद्धेतुदोषाच्च । निरंशत्वमभ्युपगम्य स भेदं साधयेत् ? अभ्युपगमहानिः प्रातज्ञाहेतुदोषः, अतः प्रतिज्ञादोषे हेतुदोषेऽकिंचित्कराख्यः । अथवा प्रतिज्ञैव हेतुः स दोषस्तस्मात् । यस्मान्न तदेव साध्यं साधनं निरंशत्वात्तस्य ॥ ८० ॥
अथान्तरंगार्थतैकांते दोषदर्शनाद्वहिरंगार्थोऽभ्युपगम्यते तत्रापि दोषं दर्शयति-
अष्टशती-सहोपलंभनियमादभेदो नीलतद्धियोर्द्वि चंद्रदर्शनवत् इत्यत्रार्थसंविदोः सहदर्शनमुपेत्यैकत्वैकांतं साधयन् कथं अवधेयाभिलापः । स्वाभिलापाभावं वा स्ववाचा प्रदर्शयन् कथं स्वस्थः । पृथगनुपलंभाद्भेदाभावमात्रं साधयेत् तच्चासिद्धं संबंधासिद्धेरभावयोः खरशृंगवत् । एतेन सहानुपलं भादभेदसाधनं प्रत्युक्तं भावाभावयोः संबंधासिद्धेः । तादात्म्यतदुत्पत्त्योरर्थस्वभावानियमात् सिद्धेऽपि प्रतिषेधैकांते विज्ञप्तिमात्रं न सिद्धयेत् तदसाधनात्तत्सिद्धौ तदाश्रयं दूषणमनुषज्येत । तदेकोपलंभनियनोप्यसिद्धः साध्यसाधनयोरविशेषात् । एकज्ञानग्राह्यत्वं द्रव्यपर्यायपरमाणुभिरनैकांतिकं, अनन्यवेद्यत्वं असिद्धं एकक्षणवर्तिसंवित्तीनां साकल्येन सहोपलंभनियमात्, व्यभिचारिहेतुः तथोत्पत्तेरेव संवेदनत्वात् दृष्टांतोऽपि साध्यसाधनविकलः तथोपलंभाभदयोरर्थप्रतिनियमात् भ्रांतौ तदसंभवात् । ननु चासहानुपलभमात्राद भेदमात्रं कथंचिदर्थस्वभावानवबोधप्रसंगात् । सर्वविज्ञानस्वलक्षणक्षणक्षयविविक्तसंततिविभ्रमस्वभावानुमितेः । साकल्येनैकत्वप्रसंगात् एकार्थसंगतदृष्टयः परचित्तविदो वा नावश्यं तद्बुद्धिं तदर्थे वा संविदेतीति हेतोरसिद्धिः सहोपलंभनियमश्च स्यात भेदश्च स्यात् किं प्रतिषिध्येत स्वहेतुप्रतिनियमसंभवात् । तस्मादयं मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो वा वचनं तत्त्वज्ञानं च प्रतिरुणद्धीति न किंचिदेतत् असाधनांगवचनात् अदोषोद्भावनाच्च निग्रहार्हत्व त् ॥ ८० ॥
बहिरंगार्थतैकांते प्रमाणाभासनिहवात् ।
सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनां ॥ ८१ ॥
बृत्तिः–बहिरंगार्थतैकांतो बाह्यार्थैकांतस्तस्मिन्नभ्युपगम्यमाने विरुद्धार्थाभिधायिनां प्रमाणांतर बाधिता
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90