Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 44
________________ आप्तमीमांसाः ।। विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७४ ॥ बृत्तिः-अपेक्षानपेक्षकांतोभयं नास्ति विरोधात् । नाप्यवाच्यमवाच्यत्वेनापि वाच्यत्वात् ।। ७४ ॥ तयोरनेकांतं दर्शयन्नाह अष्टशती-अनंतरकांतयोर्युगपाद्विवक्षा माभूत् विप्रतिषेधात, सदसदैकांतवत् । तथानभिधेयत्वैकांतेऽपीति कृतं विस्तरेण ॥ ७४ ॥ धर्मधर्म्यविनाभावः सिद्धयत्यन्योऽन्यवीक्षया । ' न स्वरूपं स्वतो लेतत् कारकज्ञापकांगवत् ॥ ७५॥ वृत्ति:-क्रमभावि पिंडादिकार्य सहभावी रूपादिर्गुणो विसदृशपरिणामलक्षणश्च विशेषो धर्मोऽत्र कथ्यते । कारणादिव्यपदेशं द्रव्यं धर्मी । स्वधर्मापेक्षया द्रव्यस्य धर्मिव्यपदेशः । स्वधर्म्यपेक्षया च रूपादेश्च धर्मव्यपदेशस्तयोर्योऽविनाभावोऽव्यभिचारोऽवश्यं सोऽन्योऽन्यापेक्षया सिद्धयति भासते उत्पद्यते वा । स्वरूषमसाधरणं रूपं तयोर्न परतः । कुतः ! यस्मात्स्वत एव तत्सिध्यति । यथा कारकज्ञापकांगे कारकक्रियाया अंग ज्ञापकक्रियाया अंगं निबंधनं तयोरिव तद्वत कर्तृकर्मकबोध्यबोधकवदित्यर्थः । अथवा अंगशब्दो विशेषार्थो द्रष्टव्यः, यथा कर्मकर्तृव्यपदेशाविनाभावो बोध्यबोधकव्यपदेशाविनाभावश्च सिध्यत्यन्योन्यापेक्षयैवमत्रापीत्यर्थः । उपेतयत्त्वं व्यवस्थाप्योपायतत्त्वव्यवस्थापनार्थमाह अष्टशती-न केवलं सामान्यविशेषयोः स्वलक्षणमपेक्षितपरस्पराविनाभावलक्षणं स्वतःसिद्धलक्षणं. अपि तु धर्मधर्मिणोरपि, कर्मकर्तृबोध्यबोधकवत् ॥ ७ ॥ इत्याप्तमीमांसाभाष्ये पंचमः परिच्छेदः । सिद्धं चेद्धेतुतः सर्व न प्रत्यक्षादितो गतिः ।। सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्यपि ॥ ७६ ॥ बृत्तिः यदि सर्वे हेतुतो निमित्तासिद्धमवगतं तर्हि प्रत्यक्षादितः प्रत्यक्षागमादेर्गतिरवगमो न स्यात् । श्यते चैंद्रियकस्याशनपानादेरर्थस्यातींद्रियस्य मलयकाश्मीरादेरत्र क्रमेण प्रत्यक्षादाप्तोपदेशतश्च गतिरिति॥ अथाममादाप्तोपदेशात्सर्वं चेष्यते ततो विरुद्धार्थानि यानि मतानि तान्यपि सिद्धिमुपगच्छेयुरिति ॥ ७६ ॥ उभयकात्म्यैकांतं निराकर्तुमाह-- अष्टशती-उपेयतत्त्वं व्यवस्थाप्य-उपायतत्त्वं व्यवस्थाप्यते. युक्तया या घटामुपैति तदहं दृष्टापि न श्रद्दधे इत्यादेरेकांते तस्य बहुलं दर्शनात् प्रत्यक्षतदाभासयोरपि व्यवस्थितिः-अनुमानात् अन्यथा संकरव्यतिकरोपपत्तेः । कथंचित्साक्षात्कारणमंतरेण न क्वचिदनुमानं किं पुनः शास्त्रोपदेशाः। नचैत युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसंगात् । न हि प्रत्यक्षानुमानाभ्यामंतरेणोपदेशं ज्योतिर्ज्ञानादिप्रतिपत्तिः ॥ ७६.॥ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७७॥ वृत्तिः-उभयकांतत्वं नास्ति विरोधात् । अवाच्यमपि न ॥ ७७ ॥ पुनरप्यनेकांतानरूपणार्थमाह--

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90