Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
आप्तमीमांसा।
२९
वृत्तिः- स्कंधा रूपवेदनाविज्ञानसंज्ञासंस्कारास्तेषां संततयश्च कार्यकारणयोरविच्छेदाः । एवकारोऽवधारणार्थः । असंस्कृता एवापरमार्था एव | कुतः ? संवृतित्वान्मिथ्यारूपत्वात् । अतस्तेषां स्थितिः । सदवस्थानमुत्पत्तिर्घटावस्था, विनाशः कपालादिरूपस्ते न स्युन भवेयुः खरविषाणवत् | यथा खरविषाणस्य स्थित्युत्पत्तिव्यया न सन्त्येवमेतेषां, अभावं प्रत्यविशेषात | यत्पुनः संस्कृतं तत्परमार्थसत् यथा स्वलक्षणम् । न तथा स्कंधाः संततयश्च । ततः स्थित्युत्पत्तिविपत्तिविरहस्ततोऽपि विभागसंतानोत्पत्तये विनाशहेतुरिति पोप्लूयते ॥
यस्य मिथ्यादृश उभयैकांतपक्षस्तन्निरासार्थमाह--
अशती-रूप-वेदना-विज्ञान-संज्ञा-संस्कारस्कंधसंततयोऽसंस्कृताः संवृत्तित्वात् । यत्पुनः संस्कृतं तत्परमार्थसत् । यथा स्वलक्षणं । न तथा स्कंधसंततयः । ततः स्थित्युत्पत्तिविपत्तिरहिताः । ततो विसभागसंतानोत्पत्तये विनाशहेतुरिति पोष्लूयते ।। ५४ ॥
विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।।
अवाच्यतैकांतेऽप्युक्तिनावाच्यमिति युज्यते ॥ ५५ ॥ वृत्तिः-उभयैकात्म्यं नित्यानित्यकांतद्वयमयुक्तमगीकर्तुं, कुतः? मिथ्यादृशां तद्विरोधात् । अनभिलाप्यमपि न युक्तमनेकांतवैरिणां ॥ ५५॥
एकांतवादिपक्षं निरस्यानेकांतं समर्थयन्नाह___ अष्टशती-नित्यत्वतरकांतद्वयमप्ययुक्तमंगीकर्तुं विरोधात् युगपजीवितमरणवत् नित्यत्वानित्यत्वाभ्यां । अत एवानभिलाप्यमित्ययुक्तं ? तदेकांतेऽनभिलाप्योक्तेरनुपपत्तेः ॥ ५५ ॥
नित्यं तत् प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा ।
क्षाणकं कालभेदात्ते बुद्धयसंचरदोषतः ॥५६॥ वृत्तिः-तच्छब्देन तत्त्वमुच्यते प्रस्तुतत्वात् तत्वं कथंचिन्नित्यं प्रत्यभिज्ञानात् । वस्तुनः पूर्वापर कालव्याप्तिज्ञानं प्रत्याभिज्ञानं । यथा स एवायं देवदत्त इत्यादि । तस्मात्प्रत्यभिज्ञानात् । तस्य प्रत्यभिज्ञानस्य अविच्छिदा अविच्छेदोऽन्वयः। सोऽकस्मात् । अहेतोर्न भवति यस्मात् । न च नित्यत्वमेव । कालभेदात्परिणामयशात् क्षणिकं नश्वरं । तवार्हद्भट्टारकस्य नान्यस्य क्षणिकाणिकवादिनः । बुद्धरसंचारोऽसंचरणमन्यत्रागमनं स एव दोषस्तस्मात् । न हि एक पदार्थ विज्ञायान्यस्य पदार्थस्य परिच्छत्तिः संभवति । उभयकांते पुनः सुघटा ॥ १६ ॥
तदेव दर्शयति
अष्टशती-तदेकांतद्वयेऽपि परामर्शप्रत्ययानुपपत्तेरनेकांतः । स्थित्यभावे हि प्रमातुरन्येन दृष्टं नापरः प्रत्यभिज्ञातुमर्हति । संबधविशेषेऽपि पित्रेव पुत्रः सन्नप्यतिशयः पृथक्त्वं न निराकरोति । तदेवान्यत्रापि प्रत्यवमर्शाभावनिबंधनमेकसंतत्या प्रत्यभिज्ञानं प्रत्यभिज्ञानवलाञ्चैकसंततिरिति व्यक्तमितरेतराश्रयणमेतत् । नच पक्षांतरे समानं स्थितेरनुभवात् । तद्विभ्रमकल्पनायामुरादविनाशयोरनाश्वासः । तथानुभवनिर्णयानुपलब्धेयथा स्वलक्षणं परिगीयते तत्रैतत्स्यात् । स्वभावाविनिर्भागेऽपि न संकलन दर्शनक्षणांतरवत् । सत्यमेकांत एवायं दोषः । ततःक्षणिकंकालभेदात् ,दर्शनप्रत्यभिज्ञानसमयोरभेदे तदुभयाभावप्रसंगात् । किंच पक्षद्वयेऽपि ज्ञानासंचारानुषंगात अनेकांतसिद्धिः । अपोद्धारकल्पनया कथंचिज्जात्यंतरेऽपि वस्तुनि प्रत्यभिज्ञानादिनिबंधने स्थित्यादयो व्यवस्थाप्येरन् । न च स्वभावभेदोपलंभेऽपि नानात्वविरोधः संकरानवस्थानुषंगः, चेतसि ग्राह्यग्राहकाकारवत् ॥५६॥
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90