Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
आप्तर्मामांसा । विरोधात्रोभयेकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतेकांतेऽप्युक्ति वाच्य मिति युज्यते ॥ ३२ ॥ बृत्तिः-अथ मतं यद्यकैके दोष उभयकात्म्यमेषितव्यमिति दूषणमाह । एकत्वपृथक्त्वपरप्रत्सनीकस्वभावद्वयसम्भवोऽपि न संभवति अस्तित्वनास्तित्ववत् प्रतिषेधात् । एकेनैकस्य निराकृतत्वात् । अथावाच्यमिष्यते तदपि न । अवाच्यत्वे येयमुक्तिः साऽपि न संभवति मिथ्यादृशां ।। ___सामान्यविशेषौ परस्परानपेक्षावन्याभ्युपगतौ निरस्य तौ सापेक्षौ सतावर्थक्रियां कुरुत इत्यस्यार्थस्य प्रतिपादनार्थमाह
अष्टशती-अस्तित्वनास्तित्वैकत्वानेकत्ववत् पृथक्त्वेतरप्रत्यनीकस्वभावद्वयसंभवोऽपि माभूत विप्रतिषेधात । न खलु सर्वात्मना विरुद्धधर्माध्यासोस्ति तदन्योन्यविधिप्रतिषेधलक्षणवाद्, बंध्यासुतवत् | सर्वथानभिलाप्यतत्त्वाभ्युपगमेऽपि यदेतदनभिलाप्यं तत्त्वमिति तद्व्याहंन्यत ॥ ३२ ॥
अनपेले पृथक्त्वैक्य वस्तु यहेतुतः।।
तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥ ३३ ॥ वृत्तिः-परस्परानपेक्षे पृथक्त्वैक्ये सामान्यविशेषाववस्तु अर्थक्रियाकारि न भवति द्वयहेतोभ्यां । कथं ! यद्यद्विशेषशून्यं तत्तन्नास्ति यथा खरविषाणं सामान्यं च तथा परपारकल्पितं । तस्मान्नास्ति विशेषः सामान्यशून्यत्वात् । स्वरविषाणविशेषवत् । इत्यनेन हेतुद्वयेन सामान्यविशेषयोरवस्तुत्वं साधनीयं । तदेव वस्तु ऐक्य-सामान्य-विशेषश्च पृथक्त्वं च द्वयात्मकं । कुतः ? अविरोधात् । यथा साधनं हेतुशानं वाक्यं वा स्वभेदैः स्वधर्मैः पक्षधर्मान्वयव्यतिरेकादिभिभिन्नमेकं भवति। .
ननु तदेवैक्यं पृथक्त्वं च कथं ? यावता विरुद्धमेतत् ,
अष्टशती-एकत्वपृथक्त्वेऽनेकांततः स्तः प्रत्यक्षादिविरोधात् इति स्पष्टयति-पृथक्त्वकत्वे तथाभूते न स्तां-एकत्यपृथक्त्वरहितत्वाद् व्योमकुसुमादिवत् । सापेक्षत्वे हि तदेवैक्यं पृथक्त्वमित्यविरुद्ध सपक्षविपक्षयोर्भावाभावाभ्यां साधनवत् । स्वभेदैवी संवेदनवत् । सारंभकावयवेर्वा घटादिवत् । तादृशं हि साधनं स्वार्थक्रियायास्तदंतरेणापि पाठांतरमिदं बहुसंगृहीतं भवति ॥ ३३ ॥
सत्सामान्यात्तु सर्वैक्यं पृथक द्रव्यादिभेदतः ।
भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ ३४॥ वृत्तिः-सतोऽस्तित्वस्य सामान्यं यत्तत्तथा तस्माच्च सर्वस्यैक्यमेव । द्रव्यादिभेदैदव्यपर्यायगुणादिभेदैरथवा द्रव्यक्षेत्रकालभावभिन्नं पृथक्त्वादेव । भेदश्चाभेदश्च तयोर्विवक्षायां क्रियमाणायामसाधारणहेतुः श्रावणत्वप्राणादिमत्त्वादिस्तद्वत् । यद्यप्यत्रान्वयो नास्ति तथाप्यन्यथानुपपत्तिवलेन सिद्धमिति ॥ ३४ ॥
केषांचिद्विद्यमानस्याविवक्षाऽविद्यमानस्यव विवक्षा अन्येषां वैयाकरणानां विद्यमानस्यैव विवक्षा नाविद्यमानस्य, अन्येषां विवक्षा नास्तीत्येतन्मतनिराकरणायाह- . ____ अष्टशती-सर्वार्थानां समानपरिणामेऽपि कथमैक्यं भेदानां स्वभावसांकानुपपत्तेः । यथैकभेदस्य स्वभावविच्छेदाभावात् । अन्यथैकं सदन्यदसत्स्यात ? तत्समंजसं सर्वमेकं सदविशेषात इति । तस्यैव सतो द्रव्यादिभेदात् पृथक्त्वं । उदाहरणं पूर्ववत् ॥ ३४ ॥
१ अभिन्नस्येत्यर्थः।
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90