Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
सनातनजैनग्रंथमालायांविवक्षा चाविवक्षा च विशेष्येऽनंतधाणि।
सतो विशेषणस्यात्र नासतस्तैस्तदर्षिभिः ॥ ३५ ॥ वृत्तिः-सतो विद्यमानस्य विशेषणस्यास्तित्वादेविवक्षा, चाविवक्षा च । नासतो नाविद्यमानस्य क्रियते । कैस्तदीर्थभिर्विवक्षाप्रयोजनवद्भिः । अत्रकस्मिन् । कुतः ! लोकप्रसिद्धमेतत् । ____ कस्यचिद्भेदः संवृतिकल्पितोऽन्यस्याभेदः संवृतिकल्पित इत्येतां दुरागमवासनाजनितां विप्रतिपत्ति निराकर्तुमाह____ अष्टशती-विधिप्रतिषेधधर्माणां सतामेव विववक्षेतराभ्यां योगस्तदर्थिभिः क्रियेत अन्यथा अर्थनिष्पमेरभावात् उपचारमात्रं तु स्यात् । नचाऽग्निर्माणवक इत्युपचारात्पाकादावुपयुज्यते । तदेकैकशः परस्परव्यावृत्तयोऽपि परिणामाविशेषाः ॥ ३५ ॥
प्रमाणगोचरौ संतो भेदाभेदी न संवृती।
तावेकत्राविरुद्धी ते गुणमुस्यविवक्षया ॥ ३६॥ वृत्तिः-भेदाभेदी प्रमाणगोचरौ-प्रमाणविषयौ संतो-भवंतौ संवृतिरूपावपरमार्थो न प्रमाणविक यत्वात् । अतस्तवागेम तावेककस्मिन् धर्मिणि न विरुद्धौ । गुणविवक्षया अप्रधानविवक्षया । मुख्यावयक्षया प्रधानविवक्षया । दृश्यते च लोके प्रधानाप्रधानविवक्षा यथाऽनुदरा कन्येत्यादि ॥ ३६॥ ..
नित्यत्वकांतं निराकर्तुकाम आह
अश्शनी-प्रमाणमविसंवादिज्ञानमनधिगतार्थाधिगमलक्षणत्वात् । तदेवं सति भेदमभेदं वा नान्यो ऽन्यरहितं विषयीकरोति । न हि बहिरंतर्वा स्वलक्षणं सामान्यलक्षणं वा तथैवोपलभामहे यथैकांतवादिभिराम्नायते । सूक्ष्मस्थूलाकाराणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण प्रत्यक्षादावप्रतिभासनात् तत्र स्वभावांतरस्य प्राधान्यविवक्षामां-आकारांतरस्य गुणभावः स्यात् । घटोऽयं परिमाणवो रूपादयो वेति ॥ ३६॥
इति आप्तमीमांसाभाष्ये द्वितीयः परिच्छेदः ।
नित्यत्वकांतपक्षेऽपि विक्रिया नोपपद्यते ।
मागेव कारकाभाषः क्व प्रमाणं क्व तत्फलम् ॥ ३५ ॥ वृत्तिः-उक्तपक्षदोषभयान्नित्यत्वकांतपक्ष आश्रीयते तत्रापि सतो भावस्यांतरावाप्तिर्विक्रिया सा नोपपद्यतन घटत इत्यर्थः । अत्त एव कारणात् कारकाणि कर्नादीनि तेषामभावः शून्यता । प्रागेव पूर्वमेव । तस्मिनभाव कारकविशेषप्रमाणवस्तुयाथात्म्यप्रतिपादक क तस्मिन् किंतु न कचिदपि । तदभावे क प्रमाणफल्मपक्षाहानोपानादिकम् ? ॥ ३७॥ . .
माभूद्विक्रिया व्यंग्यव्यंजकभावो भविष्यत्यत आह
अष्टशती-सदसदैकत्वपृथक्त्वैकांतप्रतिषेधानंतरं नित्यत्वैकांतप्रतिक्षपः । पूर्वापरस्त्रभावपरिहारावाप्तिलक्षणामर्थक्रियां कौटस्थ्येऽपि बुवाणः कथमनुन्मत्तः ! कारकज्ञापकहेतुव्यापारासंभवात । परिणामविवधिविस्थाविकाराणां स्वभावायत्वात् । तदेतद्विनाशोत्पत्तिनिवारणमबुद्धिपूर्वकं प्रत्यक्षादिविरोधात् क्षणिकैकांतक्त् ।। ३७॥
प्रमाणकारकैयक्तं व्यक्तं चेदिंद्रियार्थवत । ते च नित्ये विकार्य किं साधोस्ते शासनादहिः ॥ ३८ ॥
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90