Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 26
________________ आप्तमीमांसा। धादर्शने दंडीति विकल्पः स्यात् । तस्मात्सूक्तं यदेकांतेन सदसद्वा तन्नोत्पत्तुर्महति व्योमबंध्यासुतवत । इति । कथमिदानीमनुत्पन्नस्य गगनादेः स्थितिः इति चेत् न-अनभ्युपगमात्। द्रव्यनयापेक्षया, परप्रसिद्धया वा उदाहरणं ॥ २१ ॥ धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनंतधर्मणः । अंगि वेऽन्यतमांतस्य शेषांतानां तदंगता ॥ २२ ॥ वृत्तिः-धर्मे धर्मे धर्मनिर्देशे । भने भङ्गे इति वा पाठांतरं । अन्य एवार्थोऽपूर्व एवार्थः । कुतः ? धर्मिणो वस्तुनः । अनंता धर्माः स्वभावा यस्य सोऽनंतधर्मा तस्यानंतधर्मणः । अंगित्वे प्रधानत्वे । अन्यतमांतस्यास्तित्वादीनां मध्ये एकतमस्य । शेषांतानां परिशेषधर्माणां नास्तित्वादीनां । तत्तस्मात् । अंगता अप्रधानता । अथवा तदांगता इति पाठांतरम् । तदा तस्मिन्काले । शेषाणामप्रधानता । अतः पुनरुक्तता नास्ति । अथवा सुनयसप्तभंगीनिरूपणार्थमियं कारिका, संक्षेपार्था चेयं ॥ २२ सप्तभंगी योजयान्नाह अष्टशती-यदि पुनः प्रत्युपाधि परमार्थतः स्वभावभेदो न स्यात् तदा दृष्टेऽभिहिते वा प्रमाणांतर मुक्तयंतरं वा निरर्थकं स्यात् । गृहीतग्रहणात्पुनरुक्तेश्च स्वभावातिशयाभावात्, सदुत्पत्रिकृतकत्वादेः प्रत्यनीकस्वभावविशेषाभावात् । यावंति पररूपाणि तावंत्यस्ततस्ततो व्यावृत्तयः प्रत्येकमित्येषापि कल्पना माभूत् । सतां हि स्वभावानां गुणप्रधानभावः स्यात् । ततः परिकल्पितव्यावृत्त्या धर्मातरव्यबस्थानं परिफगुप्रायं वस्तुस्वभावाभावप्रसंगात् । तथेंद्रियबुद्धयोऽपि स्वलक्षणविषया माभूवन् , केवलं व्यावृत्तिं पश्येयुः, अदृष्टे विकल्पायोगात् । अतिप्रसंगाच ॥ २२ ॥ एकानेकविकल्पादावुत्तरत्राऽपि योजयेत् । प्रक्रियां भंगिनीमनां नयनयविशारदः ॥ २३ ॥ वृत्तिः-नयविशारदो नयः प्रमाणपरिगृहीतार्थैकदेशे वस्त्वध्यवसायस्तस्मिन्कुशलः । नयैः स्वहेतुभिर्विशेषणत्वादिभिः । एनां प्रक्रियाम् । भगिनीं भंगवती भंगबहुलां । उत्तरत्रापि इह ऊर्ध्वमपि । योजयेदुद्धाटयेत् ॥ क ! एकश्च अनेकश्च तावेव विकल्पों तावादिर्यस्य तस्मिन्नेकानेकविकल्पादौ । कथं ? स्यादेकः । स्यादनेकः । स्यादेकश्चानेकश्च । स्यादवक्तव्यः । स्यादेकश्चावक्तव्यः । स्यादने कश्चावक्तव्यश्च । स्यादेकश्यानेकश्चावक्तव्यश्च । एवमनेन द्वैताद्वैतादिषु योज्यं ॥ २३ ॥ सदायेकांतेषु दोषमुद्भाव्यैवमद्वैतेकांत दूषयितुमाह अष्टशती-स्यादेकं सद्व्यनयापेक्षया । यद्यपि विशेषाः परस्परव्यावृत्तपरिणामाः कालादिभेदेऽपि सदूपाविशिष्टाच्चित्रज्ञाननीलादिनिर्भासवत् स्यादनेकत्वमास्कदंति । न हि संख्यासंख्यावतोभैदेनादृष्टौ विशेषेणविशेष्यविकल्पः कुंडलिवत् । क्षीरोदकवदतद्वेदिनि-नच भेदैकांते तद्वत्तास्ति व्यपदेशनिमित्ताभावात् । अनवस्थाप्रसंगाच्च । तस्मादयं कथंचिंदव संख्यासंख्यावतोः स्वभावभेदं पश्यति तद्विशिष्टविकल्पनात् । क्वचिनिर्णयेऽप्यन्यत्र संशयाद्, वर्णरसादिवत् ॥ २३ ॥ इत्याप्तमीमांसाभाष्ये प्रथमः परिच्छेदः । १। अदृष्टविकल्पायोगात् पाठोयं ख, पुस्तके । २ पश्यन् पश्यतीति ख. पुस्तके पाठः।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90