Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
सनातन जैनग्रंथमालायां
दर्शने स्वाकारमनपर्यतां स्वभावकार्यप्रतिबंधाभावे प्रमेयत्वं प्रमाणांतरमवश्यमाकर्षयति । ततो विप्रतिषिद्धमेतत् । नच स्वलक्षणमेवान्यापोहः सर्वथाविधिनियमयोरेकतानत्वाऽसंभवात् । तत्स्वभावभेदाभावे च संकेतविशेषानुपपत्तेः-अभिधानप्रत्ययविशेषोऽपि माभूत्तदन्यतरवत् । ततो यावंति पररूपाणि प्रत्येकं तावंतस्ततततः परावृत्तिलक्षणाः स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः । यदि संबंध्यतराणि भावस्वभावभेदकानि न स्युस्तदा नित्यत्वेऽपि कस्यचित्संबंध्यंतरेषु कदाचित्केषु क्रमशोऽर्थक्रिया न वै विप्रतिषिध्येत । शक्यं हि वक्तुं क्रमवर्तीनि कारणानि तत्तन्निर्वतनात्मकानि इति नित्यं स्वभावं न वै जहाति क्षणिकसामिग्रीसन्निपातैकतमवत् । तदेतत्तदा तदा तत्तत्कर्तुं समर्थमेकं स्वभावं अविचलितं विभ्राणं सहकारिकारणानि स्वभाव स्याभेदकानि नानाकार्यनिबंधनानि कादाचित्कानि प्रतीक्ष्यंत इति । तदिमेऽर्था विधिप्रतिषेधाभ्यां संप्रतिवत् हानप्रतिबंधमतिवर्तते वस्तुत एव । ततो न संवृतिस्तद्व्यवहाराय भेदमावृत्त्य तिष्ठतीति युक्तं । तदनेकस्वभावाभावे विनिर्भासासंभवात् आत्मनि परत्र चासंभविनमा कारमादर्शयतीति मुग्धायते सर्वत्रासहायरूपानुपलब्धेः । तदियं संवृतिः सामान्यसामानाधिकरण्य-विशेषणविशेष्यभावादिव्यवहार निर्भासान् विभ्रती स्त्रयमनेकरूपतां प्रतिक्षिपतं व्यवस्थापयति । तद्वद्भावांतराणामनेकात्मकत्वे वास्तवी साधर्म्यादिस्थितिरविशेषेण विकल्पबुद्धेर्मिथ्यात्वं प्रतिजानंतं प्रतिक्षिपत्येव । यत्पुनरेतदन्यतो व्यावृत्तिरनात्मिकैवेति तन्न चक्षुरादिज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेषात् । निर्णयस्य भावस्वभावाऽसंस्पर्शिनः सर्वथा वस्तुतत्त्वापरिच्छेदादच्छमेवेति स्वयमेकांतानुपपत्तेः । अतोऽयं स्वभावः स्वभावभेदान् विधिप्रतिषेधविषयान् विभ्राणः प्रत्यक्षेतर प्रमाणसमधिगतलक्षणः प्रतीयेत । तस्माद्यद्विशेषणं तत्प्रतिषेध्याविनाभावि क्वचिद्धामणि यथा साधर्म्य भेदविवक्षया, कृतकत्वादौ विशेषणं चास्तित्वं ततः प्रतिषेध्यधर्मप्रतिबंधी ॥ १७ ॥ नास्तित्वं प्रतिषेध्येनाविनाभाव्यकधर्मिणि । विशेषणत्वाद्वैधर्म्यं यथाऽभेदविवक्षया ॥ १८ ॥
१५
वृत्तिः - नास्तित्वं प्रतिषेध्येनास्तित्वेनाविनाभावि विशेषणत्वात् । यथा वैधर्म्यमभेदविवक्षया ॥ यत्किंचित् विशेषणं तत्सर्वमेव प्रतिपक्षधर्माविनाभावि यथा वैधर्म्य साधर्म्यविवक्षया । हेतोर्विशेषणं च नास्तित्वं ॥ १८ ॥
पुनरप्यविरोधं दर्शयन्नाह -
अष्टशती-भेदाभेदविवक्षयोरवस्तुनिबंधनत्वे विपर्यासोऽपि किं न स्यात् । ततः समंजसमेतत् । यत्किंचिद्विशेषणं तत् सर्वमेकत्र प्रतिपक्षधर्मविनाभावि यथा वैधर्म्यमभेदविवक्षया हेतौ । तथा च त्वं विशेषणं - अन्यथा व्यवहारसंकरप्रसंगात् । न हि स्वेच्छाप्रक्लृप्तधर्मधर्मव्यवस्थायां परमार्थावतारः स्यात् । तदसमीक्षिततत्त्वार्थैर्लोकप्रतीतिवशाद्भेदाभेदव्यवस्थितिस्तत्त्वप्रतिपत्तये समाश्रियत इति वालाभिलापकल्पं । भावस्वभावोपरोधात् ॥ १८ ॥
विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥ १९ ॥
वृत्तिः- विधेयशब्दवाच्यः साध्य इत्यर्थः । प्रतिषेध्यो निराकरणीयः । द्वन्द्वः । तावात्मा स्वरूपं यस्य स विधेयप्रतिषेध्याध्यात्मा विशेष्यो धर्मी पक्ष इत्येकार्थः । शब्दगोचरः शब्दविषयः । साध्यस्य धर्मः साध्यधर्मः । यथा दृष्टान्तप्रदर्शकः । हेतुः साधनमहेतुरसाधनम् । अपि सम्भावनायाम् । अपेक्षया विवक्षया || विशेष्यो विधेयप्रतिषेध्यात्मा शब्दगोचरत्वात् यथा साध्यधर्मो हेतुश्चाहेतुश्च भवति विवक्षया । अग्निमश्वे साध्ये धूमो हेतुर्भवति जलत्वे साध्येऽहेतुरेकस्मिन्धर्मिणि । एवमत्रापि यो यः शब्दविषयः स सर्वोऽपि विधेयप्रतिषेध्यात्मा विशेष्यः । यथा साध्यधर्मो हेतुरहेतुश्चापेक्षया । शब्दविषयश्च विशेष्य तस्माद्विधेयप्रतिषेध्यात्मा ॥ १९ ॥
Loading... Page Navigation 1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90