Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
सनातनजैनग्रंथमालायांधात् कथंचित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया, विपर्यये तथवासंभवात् । सर्वथा जात्यंतरकल्पनायां तदंशनिबंधनविशेषप्रतिपत्तरत्यंताभावप्रसंगात् । सर्वयोभयरूपत्वे वा जात्यंतरप्रति पत्तेरयोगात् । तथा चानवस्थादिदोषानुवंगः । तदिष्टं स्यादुभयं, सद्भावेतराभ्यामनभिलापे वस्तुनः केवलं मूकत्वं जगतः स्यात् विधिप्रतिषेधव्यवहारायोगात् । न हि सर्वात्मनामभिलाप्यस्वभावं बुद्धिरध्यवस्यति । न वानध्यवसायं प्रमितं नाम गृही. तस्यापि तादृशस्यागृहीतकल्पत्वात् मूछीचैतन्यवत् । सर्वात्मनाभिधयत्वेऽपि प्रत्यक्षेतराविशेषप्रसंगात् । तथाभिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् । स्वपक्षविपक्षस्यासत्वात् तत्वप्रदर्शनाय यत्किंचित्प्रणयन् वस्तु सर्वथानभिधेयं प्रतिजानातीति किमप्येतन्महाद्भुतं, तत्कृतां वस्तुसिद्धिमुपजीवति न च तद्वाच्यतां चेति स्वदृष्टिरागमात्रमनवस्थानुषंगात् ॥ १४ ॥
सदेव सर्व को नेच्छेत् स्वरूपादिचतुष्टयात् ।
असदेव विपयोसान्न चेन व्यवतिष्ठते ॥१५॥ वृत्तिः-सदेव-सत्त्वमेव सर्व-निरवशेष विश्वम् । को नेच्छेत्-को न मन्यते कस्य नेष्टं ? किंतु इष्टमेव सर्वस्य । स्वरूपमात्मरूपं स्वस्य वा रूपं तदादिर्यस्य तत्स्वरूपादि तच्चैतच्चतुष्टयं चतुर्विकल्प तत्तथाभूत । तस्मात्स्वरूपादिचतुष्टयात् । किं तत् ? स्वद्रव्यस्वक्षेत्रस्वकालस्वभावः। तस्मात् । असदेव नास्तित्वमेव विपर्यासात्-अस्वरूपादिचतुष्टयात्। अस्वद्रव्यक्षेत्रकालभावात् । न चेत्-यद्येवं न । न व्यवतिष्ठते-न घटते नात्मस्वरूपं लभत इत्यर्थः । किमुक्तं भवति-स्वरूपादिचतुष्टयात्सर्वे सदेव को नेच्छेत् । विपर्ययाद्विपर्ययं को नेच्छेत् ? । यदि पुनर्येनैव सत्त्वं तेनैवासत्त्वमिति स्यान्न किंचिदपि स्यात् ।।
शेषभंगप्ररूपणार्थमाह
अष्टशती-स्यात्सदसदात्मकाः पदार्थाः सर्वस्य सर्वाकरणात् । नहि पटादयो घटादिवत् क्षीराद्याहारणलक्षणामर्थक्रियां कुर्वति घटादिज्ञानं वा । तदुभयात्मनि दृष्टांतः सुलभः । शब्देतरप्रत्यययोः एकानेकवस्तुविषययोः, एकात्मसमवेतयोः कारणविशेषवशात् परिवृत्तात्मनोः स्वभावभेदेऽपि कथंचिदकत्वमस्त्येव विच्छेदानुपलब्धेः । उपादानस्य कार्यकालमात्मानं कथंचिदनयतश्चिरतरनिवृत्ताविशेषात् कार्योत्पत्तावपि व्यवेदशानुपपत्तेस्तादृशं स्वरूपैकत्वमस्त्येव विशेषावेक्षया तु नास्त्येव । न हि पौरस्त्यः पाश्चात्यः स्वमावः, पाश्चात्यो वा पौरस्त्यः निरपेक्षः । तत्र क्रमोऽपि प्रतिभासातिशयवशात् प्रकल्प्येत तदेकत्वादक्रमः किं न स्यात् । तदेकमनेका कारं, अक्रमक्रमात्मकं, अन्वयव्यतिरेकरूपं सामान्यविशेषात्मकं सदसत्परिणामं स्थित्युत्पत्तिविना शात्मकं स्वप्रदेशनियतं स्वशरीरव्यापिनं त्रिकालगोचरमात्मानं परं वा कथंचित् साक्षात्करोति परोक्षयति वा केशादिविवेकव्यामुग्धबुद्धिवत् । तादृशैकचतन्यं सुखादिभेदं वस्तु स्वतोऽन्यतः सजातीयविजातीयाद्विविक्तलक्षणं विभर्ति-अन्यथा अनवस्थानात् क्वचित्कथंचिदनियमः स्यात् ॥ १५ ॥
क्रमाप्तिद्वयाद् द्वैतं सहावाच्यमशक्तितः।
__ अवक्तव्योत्तराः शेषास्त्रयो भंगा स्वहेतुतः ॥ १६॥ वत्ति-क्रमेण परिपाट्या अर्पितं विवक्षितं क्रमार्पितं तच्च तद्वयं द्वितयं क्रमाप्तिद्वयं तस्मात्कमार्पितद्वयात् । द्वाभ्यामितं द्वीतं-द्वीतमेव द्वैतं-द्वयात्मकमस्तित्वनास्तित्वस्वरूपं-क्रमविवक्षितस्वपरचतुष्टयादस्तित्वनास्तित्वस्वरूपमित्यर्थः । सह-युगपत् एकहेलया विवक्षितस्वपरचतुष्टयादित्यर्थः। यद्यपि द्वयशब्दः समासांतर्भूतस्तथापि तेन संबंधोऽन्यस्याऽश्रुतत्वात् । अवाच्यं-अवक्तव्यमुच्चारयितुमशक्यमित्यर्थः । कुतः ? अशक्तितः असामर्थ्यात् । अवक्तव्यमवाच्यमुत्तरं-परं येषां भङ्गानां तेऽवक्तव्योत्तराः शेषा अन्ये त्रयो भङ्गास्त्रयो विकल्पाः । स्वहेतुतः स्वकीयकारणात् । के ते स्वहेतवः स्वरूपादिचतुष्टयात्सहविवक्षितस्वरूपादिचतुष्टया
चास्ति चावक्तव्यं । तथा पररूपादिचतुष्टयात् , युगपद्दर्शितस्वपररूपादिचतुष्टयाच्च नास्ति चावाच्यम् । तथा क्रमाप्तिस्वरूपादिचतुष्टयाधुगपद्विवक्षितस्वपररूपादिचतुष्टयाच्चास्ति नास्ति चावक्तव्यं च ।
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90