Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 25
________________ १६ आप्तमीमांसा । शेषभंगान् समर्थयन्नाह- अष्टशती - किंचित्केन चिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्संबंध लोकस्थितिसंकलनेन गृह्येत नान्यथेत्यभिनिवेशेऽपि वस्तुनो विधिप्रतिषेधस्वभावयोः प्रत्येकं दर्शनमवश्यंभावि । ततो विधिप्रतिषेधावामानौ विशेषस्य सविकल्पकत्वं प्रसाधयतः । ततः सामान्यविशेषात्मकत्वं वस्तुत्वलक्षणं । अस्तित्वनास्तित्वयोर्धर्मी सामान्यं तत्र तादात्म्यलक्षणः संबंध: संबंधांतरकल्पनायामनवस्थाप्रसंगात् । तन्नैतत्सारं, जात्यादि - मतामेतन्न संभवत्येवेति तदभाव एवासंभवात् तथा सति नैकांतेन दर्शन विकल्पाभिधानानां विषयभेदोऽस्ति कथंचित्प्रतिभासभेदेऽपि प्रत्यासन्नेतरपुरुषदर्शनवत् । तथाहि धूमादयः कृतकत्वादयो वा क्वचिदग्निसलिलयोर्विनाशेतरयोर्वा साधनेतरस्वभावाम्यां साक्षात्क्रियेरन् । इतरथा हि विशेष्यप्रतिपत्तेरयोगात् । अनापेक्षायां तु विरोधः । तस्मात् यदभिधेयं तद्विशेष्यं यद्वा विशेष्यं तदभिलाप्यं यद्वा वस्तु-तत्सर्वं विधेयप्रतिषेध्यात्मकं यथोत्पत्यादिः । अपेक्षया हेतुः - अहेतुश्च साध्येतरयोः - तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि ॥ १९ ॥ शेषभंगाश्च नेतव्या यथोक्तनययोगतः + न च कश्चिद्विरोधोऽस्ति मुनींद्र तव शासने ॥ २० ॥ वृत्तिः - शेषभंगारच अवक्तव्यादयो नेतव्या ज्ञातव्या योजनीयाः । यथोक्तश्चासौ नयश्च यथोक्तनयः तस्य योगस्तस्मात् विशेषणत्वादिति हेतोरित्यर्थः । विरोधोऽपि न कश्चित् । उपलक्षणमेतत् । विरोध इति संशयविरोधवैयधिकरण्योभयदोषप्रसंगसंकरानवस्थाऽभावानाक्षिपति एते दोषा न संति । कस्मात्? अनेकांतत्वाद्वस्तुनः । जीवादिपदार्थयाथात्म्यमननान्मुनयस्तेषामिंद्रो भगवान् केवली तस्य संबोधनं हे मुनींद्र । तव शासने युष्मन्मते । अनभिलाप्यादयोऽपि धर्माः क्वचिदेकधर्मिणि प्रत्यनीकस्वाभावाविनाभाविनो विशेषणत्वात् पूर्वोक्तमुदाहरणम् ॥ अष्टशती - स्यादस्ति स्यान्नास्तीति भंगद्वयमुपयुक्तं तदपेक्षया शेषत्वं । भंगत्रयापेक्षं वा । यथोक्तनययोगत इति विशेषणत्वादीनाक्षिपति । तदनभिलाप्यादयोऽपि कचिद्धर्मिणि प्रत्यनीकस्वभावाविनाभाविनः प्रतीयं विशेषणत्वादिभ्यः पूर्वोक्तमुदाहरणं । नचैवं सति किंचिद्विप्रतिषिद्धं - अन्यथैव विरोधात् ॥ २० ॥ अनेकांतात्मकं तत्त्वं व्यवस्थाप्यैकांतं निराकर्तुमाह एवं विधिनिषेधाभ्यामनदास्थितमर्थकृत् । नेति चेन्न यथाकार्यं बहिरंतरुपाधिभिः ॥ २१ ॥ 1 वृत्तिः - एवमनेन प्रकारेण । विधिनिषेधाभ्यामस्तित्वनास्तित्वाभ्याम् । अनवस्थितमनवधारितं यद्वस्तु तदर्थ कृत्-कार्यकारि भवति । नेति चेत् यद्येवं न भवति । न । यथाकार्यं यथाभूतं कार्यमुपलभ्यते तस्य कारकं न स्यात् । बहिरंतरुपाधिभिः बाह्याभ्यंतरहेतुभिः सहितैरपि । अथवा अनवस्थितं शून्यं अयथाकार्यम् ॥ अथ मतं स्यादस्तीत्यनेनैव स्याच्छब्देन सर्वे भंगा गृहीताः । किमेतेषां प्रपचोडत आह अष्टशती - सप्तभंगीविधौ स्याद्वादे विधिप्रतिषेधाभ्यां समारूढं वस्तु सदसदात्मकमर्थक्रियाकारि कथंचित्सत एव सामिग्रीसन्निपातिनः स्वभावातिशयोपपत्तेः सुवर्णस्य केयूरादिसंस्थानं नेति चेदित्यादिनैकांतेऽर्थक्रियां प्रतिक्षिपति । न तावत्सतः पुनरुत्पत्तिरस्ति । न चानुत्पन्नस्य स्थितिविपत्ती खपुष्पवत् । नाप्यसतः सर्वथोत्पत्त्यादयस्तद्वत् । यदि पुनः सामिग्न्याः प्राग्विद्यमानस्य जन्म न स्यात् को दोषः स्यात् । तस्या निरन्वयविनाशे निष्कारणस्य तथैवोत्पत्तिर्न स्यात् । न हि निराधारोत्पत्तिर्विपत्तिर्वा क्रियारूपत्वात् । स्थितिवन्नैतन्मंतव्यं । नोत्पत्यादिः क्रिया क्षणिकस्य तदसंभवात् । ततोऽसि हेतुरिति प्रत्यक्षाविरोधात् । प्रादुर्भावादिमतः चक्षुरादिबुद्धौ प्रतिभासनात् । अन्यथा तद्विशिष्टविकल्पोऽपि माभूत् न हि दंडपुरुषसंबं

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90