Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 13
________________ अप्तमीमांसा। क्षयो विगमः विश्लेषः बहिरंतर्मलक्षयः । एतदुक्तं भवति । कस्मिंश्चिदतिशायनादोषावरणयोर्हानिरस्ति । यथा धातुपाषाणस्य अतर्मलक्षयः । स कश्चिद्भवत्येव गुरुरिति संबंधः । एकत्र स्वहेतवः सम्यग्दर्शनादयः । अन्यत्र पिण्डीबन्धनप्रयोगादयः । तथा एकत्र बहिर्मळः शरीरेन्द्रियादिकं । अन्तर्मलः कर्म | अन्यत्र बहिर्मल: किट्टकादिकं । अन्तर्मल: कालिमादि ॥ ४ ॥ ननु विध्वस्तदोषाऽप्यात्मा कथं विप्रकर्षिणमर्थ प्रत्यक्षीकुर्यात् ? । ( इति शङ्कायां) साधनान्तरस्य बाधकाभावस्य भावनिरूपणमाहअष्टशती-वचनसामर्थ्यादज्ञानादिर्दोषः स्वपरपरिणामहेतुः, अत एव लोष्ठादौ निःशेषदोषावरणनिवृत्तेः सिद्धसाध्यतेत्यसमीक्षिताभिधानं साध्यापरिज्ञानात् । दोषावरणयोर्हानिरतिशायनात् । निश्शेषतायां साध्यायां बुद्धेरपि किं न परिक्षयः स्याद्विशेषाभावात् । अतोनैऽकांतिको हेतुरित्यशिक्षितलाक्षितं चेतनगुणव्यावृत्तेः सर्वात्मना पृथिव्यादेरभिमलत्वात् । अदृश्यानुपलभादभावासिद्धिरित्ययुक्तं परचैतन्यनिवृत्तावारेकापत्तेः संस्कर्तृणां पातकित्वप्रसंगात् । वहुलमप्रत्यक्षस्यापि रोगादेविनिवृत्तिनिर्णयात् । व्यापारव्याहाराकारविशेषव्यावृत्तिसमयवशात्तादृशं लोको विवेचयति । व्यापारव्याहाराकारविशेषव्यावृत्तेरिति सययवशात्तसिद्धांतविल्लोको विवेचयांते । यदि पुनरयं निबंध सर्वत्र विप्रकर्षिणामभावासिद्धेः, तदा कृतकत्वधूमादेविनाशानलाभ्यां व्याप्तेरसिद्ध न कश्चिद्वेतुः । ततः शौद्धोदनिशिष्यकाणामनात्मनीनमेतत् , अनुमानोच्छेदप्रसंगात्।तथाहि, यस्य हानिरतिशयवती तस्य कुतश्चित्सर्वात्मना व्यावृत्तिर्यथा बुद्धयादिगुणस्यात्मनः । तथा च दोषादेर्हानिरतिशयवती कुतश्चिन्निवर्तयितुमर्हति, सकलं कलंकमिति कथमकलंकसिद्धिर्न भवेत् । मणेर्मलादेावृत्तिः क्षयः सतायतविनाशानुपपत्तेः, तादगात्मनोऽपि कर्मणां निवृत्तौ परिशुद्धिः, । कर्मणोऽपि वैकल्यमात्मकैवल्यमस्त्येव ततो नातिप्रसज्यते । प्रतिपक्ष एवात्मनामागुंतुको मलः परिक्षयी स्वनिर्हासनिमित्तविवर्द्धनवशात् ॥ ४ ॥ ननु निरस्तेोपद्रवः सन् आत्मा कथमकलंकोऽपि विप्रकार्षणमर्थे प्रत्यक्षीकुर्यात् ? सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्य चिद्यथा । ___ अनुमेयत्वतोऽग्न्यादि रात सर्वज्ञसंस्थितिः ॥५॥ वृत्तिः-सूक्ष्माः स्वभावविप्रकृष्टाः । अंतरिताः कालविप्रकृष्टाः। दूराः देशविप्रकृष्टाः । ते च ते अर्थाश्च सूक्ष्मान्तरितदूरार्थाः । तथा च स्वभावविप्रकृष्टा मन्त्रौषधिशक्तिचित्तादयः । कालविप्रकृष्टा लाभालाभसुखदुःखग्रहोपरोगादयः । देशविप्रकृष्टा मुष्टिस्थादिद्रव्यम् । दूरा हिमवन्मंदरमकराकरादयः । प्रत्यक्षाः अध्यक्षाः प्रत्यक्षज्ञानगोचराः कस्यचित् । सामान्यकथनमेतत् । अनिर्दिष्टनामधेयस्य-यथा दृष्टांतप्रर्दशकः अनुमयाः अनुमानगम्याः । अथवा अनुगतं मेयं मानं येषां ते अनुमेयाः प्रमेया इत्यर्थः । तेषां भावस्तस्मादन मेयत्वतः । अग्निः पावकः आदिर्यस्यासावग्नादिः । इत्येवमनेन प्रकारेण सर्वज्ञस्य विश्वदर्शिनः सस्थितिव्यवस्था सर्वज्ञसंस्थितिः सर्वज्ञास्तित्वमित्यर्थः । भागासिद्धानकांतिकविरुद्धहेत्वाभासाभावात् । ये ये प्रमेयास्ते ते प्रत्यक्षाः । यथा अग्न्यादयः । प्रमेयाश्च स्वभावकालदेशविप्रकृष्टा अर्थाः कस्य चित्पुरुषविशेपस्य तस्मात्तेऽपि प्रत्यक्षाः । अथवा ये अनुमानगभ्यास्ते प्रत्यक्षाः कस्य चित् । यथा अग्न्यादयः । अनुमानगम्याश्च सूक्ष्मान्तरितद्रार्थास्तस्मात्तेऽपि प्रत्यक्षाः । सुनिश्चितासंभवद्बाधकप्रमाणस्य समर्थनमेतत् । विगतकर्मकलङ्कोऽपि विप्रकृष्टार्थदर्शी सामान्येन यः प्ररूपितः स कः ? इति विशेषं दर्शयन्नाहअष्टशती-स्वभावकालदेशविप्रकर्षिणां अनुमेयत्वमसिद्धमिति-अनुमानमुत्सारयति । यावान् कश्चिद्भावः स सर्वः क्षणिकः-इत्यादिव्याप्तेरसिद्धौ प्रकृतोपसंहाराऽयोगात् । अविप्रकर्षिणामनुमतेरानर्थक्यात् । सत्त्वादेरनित्यत्वादिव्याप्तिमिच्छतां सिद्धमनुमेयत्वमनवयवेनेति न किंचिद्व्याहतं पश्यामः । तेऽनुमेयाः-न कस्य चि १ विप्रकर्षण लि. पु. पाठः। २ आग्रहः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90