Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 18
________________ सनातनजैनग्रंथमालायांअष्टशती-प्रागभावानभ्युपगमे घटादेरनादित्वप्रसंगात् पुरुषव्यापारानर्थक्यं स्यात् । कल्पयित्वापि तदमिव्यक्तिं तस्याः प्रागभावोऽगीकर्तव्यः । तथाहि सतः शब्दस्य ताल्वादिभिरभिव्यक्तिः प्रागसती क्रियते न पुनः शब्द एवेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रं । सा यदि श्रवणज्ञानोत्पत्तिः सैव कथं प्राक सती यत्नतः कर्तव्या। योग्यतायां समानश्चः । तदावरणविगमः प्राक किमभूत् भूतौ वा किं यत्नेन ? विशेषाधानमपि तादृगेव कर्तृकर्मकरणानां प्रागभावाभावात्, न कश्चिद्विशेषहेतुः, ताल्वादयो व्यंजका न पुनश्चक्रादयोऽपि इति । न हि व्यंजफव्यापृतिर्नियमेन व्यंजकं संनिधापयति । नायं दोषः सर्वगतत्वाद्वर्णानामित्यपि वातं ! अन्यत्रापि तथाभावानुषंगात् । इष्टत्वात् अदोषोऽयं न कारणव्यापारेष्वपि चोद्यानिवृत्तः । एतेनानवस्था प्रत्युक्ता तद्विशेषैकांते तद्वतोऽनुयोगस्तावतेति कर्तब्यतास्थानात् । अभेदैकांते पूर्ववत्प्रसंगः । परिणामेऽप्येषः पर्यनुयोगस्तदभिन्नानां क्रमशोवृत्तिर्माभूत् । भिन्नानां व्यपदेशोऽपि माभूत् संबंधासिद्धरनुपकारकत्वात् । उपकारेऽपि सर्व समानं अनवस्था च । विनाशान युपगमे तस्य किंकृतमश्रावणं ! तदात्मानमखंडयतः कस्यचिदावरणवायोगात् । आवृतानावृतस्वभावयोरभेदानुपपत्तेः । तयोरभेदे वा शब्दस्य श्रुतिरश्रुतिर्वा इत्येकांतः ? तमसापि घटादरखंडने पूर्ववदुपलब्धिः किं न भवितुमर्हति ? स्वसवित्त्युत्पत्ती कारणांत. रापेक्षा माभूत् तत्करणसमर्थस्य, अन्यथा तदसामर्थ्यमखंडयदकिंचित्करं किं सहकारिकारणं स्यात् । तत्खंडने वा स्वभावहानिरव्यतिरेकात् । व्यतिरेके व्यपदेशानुपपत्तिरिति पूर्ववत्सर्वे । वर्णानां व्यापित्वान्नित्यत्वाच्च क्रमश्रुतिरनुपपनैव, समानकरणानां तादृशामभिव्यक्तिनियमायोगात् । सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् । वक्तृश्रोक्तृविज्ञानयोस्तत्कारणकार्ययोः क्रमवृत्तित्वमपेक्ष्य परिणामिना क्रमोत्पत्तिप्रतिपत्त्योर्न किंचिद्विरुद्धं पश्यामः । सर्वगतानामेष क्रमो दुष्करः स्यात् क्षणिकेष्वेव करणांगहारादिषु प्रत्यभिज्ञानाद्विरुद्धो हेतुः । तक्रियैकत्वेऽपि किमिदानीमनेकं स्यात् । सर्ववर्णैकत्वप्रसंगात् । शक्यं हि वक्तुं-अभिव्यंजकभेदाद्वैश्वरूप्यं जलचंद्रवत् । क्वचित्प्रत्यक्षविरोधे ? तदन्यत्राप्यविरोधः कुतः ? तदयं ताल्वादिव्यापारोपजनितश्रावणस्वभावं परित्यज्य विपरीतमासादयन्नपि नित्यश्चेन्न किंचिदनित्यं । युगपत्प्रतिनियतैकदेशमंद्रतारश्रुतेः कस्य चिदेकत्वेन क्वचिदनेकत्वसिद्धेः । न हि कथंचित् क्वचित्प्रत्यवमर्शो न स्यात्, तच्छेपविशेषबुद्धरभिव्यंजकहेतुत्वप्रक्लुप्तौ सर्व समंजसं प्रेक्षामहे । तदेतेषां पुद्गलानां करणसंनिपातोपनीतश्रावणस्वभावः शब्दः पूर्वापरकोव्योरसन प्रयत्नानंतरीयको घटादिवत् पुद्गलस्वभावत्वे दर्शनविस्ता रविक्षेपप्रतीघातकर्णपूरणैकश्रोत्रप्रदेशाद्युपलंभो गंधपरमाणुप्रतिविधानतयोपेक्षामर्हति । कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतर्भवनाद्युपघातिनः शब्दस्य प्रसिद्धिः-अस्पर्शत्वकल्पनामस्तं गमयति । निश्छिद्रानरगमनादयः सूक्ष्मस्वभावत्वात् स्नेहादिस्पर्शादिवन विरुध्येरन् अतो यत्नजनितवर्णाद्यात्मा श्रावणमध्यस्वभावः प्राक् पश्चादपि पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः । ततः प्राकप्रध्वंसाभावप्रतिक्षेपे कौटस्थ्यं क्रमयोगपद्याभ्यां स्वाकारज्ञानाद्यर्थक्रियां व्यावर्तयतीति निरूपाख्यत्वमित्यभिप्रायः । तदानु पूर्वीकल्पनां विस्तरेण प्रतिक्षेप्स्यामः ॥ १० ॥ सर्वात्मकं तदेकं स्यादन्योपाहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ ११ ॥ वृत्तिः-सर्वो विश्वो निरवशेषः आत्मा स्वरूपं यस्य तत् सर्वात्मकम् । तत् किचिंद्वस्तु विवक्षितरूपं, एक-अभेदरूपं-स्यात् भवेत् । अन्यस्य अपरस्य अपोहो-निराकरणं तस्य व्यतिक्रमः-निहवः निराकृतिः स तथाभूतः तस्मिन्नन्यापोहव्यतिक्रमे इतरेतराभावाभावे इत्यर्थः । अन्यत्र अत्यन्ताभावाभावे । समवायेन मीलनेन समुदायन । व्यपदिश्येत कथ्येत अभ्युपगम्येत । सर्वथा सर्वप्रकारैः । खरविषाणादि । अथानयोरभावयोः को विशेषः? इति चेत्-घटे पटाभाव इतरेतराभावः । कदाचित्कालांतरे तत्तन स्वरूपेण भवति, शक्तिरूपेण विद्यमानत्वात् । अत्यंताभावः पुनर्जीवत्वेन पुद्गलस्याभावः कदाचिदपि तेन स्वरूपेण न भवति ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90