Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
आप्तमीमांसा । एतदुक्तं भवति-अन्यापोहव्यतिक्रमे सति, किंचिद्विवक्षितं सर्वात्मकमेकं भवति । अयंताभावाभावे पुनरैक्येन सर्वप्रकारैर्व्यपदिश्यत । ततो न किंचित्स्यात् ॥
भावकांतपक्षे कुशलाकुशलकर्मादेरघटनां प्रदय अभावकांतपक्षेऽपि भृशं न घटत इति प्रदर्शयन्नाह
अब्दशती-स्वभावांतरात्स्वभावव्यावृत्तिरन्यापोहः । संविदो ग्राह्याकारात्कथं चिद्व्यावृत्तौ- अनकांतसिद्धिः-अन्यथा संबंधासिद्धिः । अव्यावृत्तावन्यतरस्वभावहानेन किंचित्स्यात् विषयाकारविकलस्यानुपलब्धः । संवित्तेः स्वलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारविवेकस्वभावांतरानुपलब्धेः स्वभावव्यावृत्तिः । शवलविषयनिर्भासे ऽपिलोहितादीनां परस्परव्यावृत्तिरन्यथा चित्रप्रतिभासासंभवात,तदन्यतमवत्तदालंबनस्यापि नीलादेरभेदस्वभावापत्तः । तद्वतस्तेभ्योव्यावृत्तिरेकानेकस्वभावत्वात् रूपादिवत् अन्यथा द्रव्यमेव स्यान्न रूपादयः । स्वाभाविकखेऽपि नि सवैलक्षण्यं करणसामिग्रीभेदमनुविदध्यात् दूरासन्नकार्थोपनिबद्धनानादर्शननिर्भासवत् । प्रति पुरुष विषयस्वभावभेदो वा सामिग्रीसंबंधभेदात् । अन्यथा न केवलं रूपादेरभेदः । कस्य चित्क्रमशः संबं. ध्यंतरोपनिपातोऽपि स्वभावं न मेदयेत् । ततः क्रमवंत्यपि कार्याणि तत्स्वभावभेदं नानुमापयेयुः । ततो यावंति संबंध्यंतराणि तावंतः प्रत्येकं भावस्वभावभेदाः परस्परव्यावृत्ताः । न हि कस्यचित्केनचित् साक्षात्परंपरया वा संबंघो नास्ति निरुपाख्यत्वप्रसंगात् । तदेवं प्रतिक्षणमनंतपर्यायाः प्रत्येकमर्थसार्थाः । क्रमशोऽपि विच्छेदे, अर्थक्रियानुपपत्तेः स्वभावमसंतन्वतः क्वचिदुपकारितानुपपत्तेः । कारणस्य स्वकार्यात्मना भवतः प्रतिक्षेपायोगात् । स्वभावांतरानपेक्षणात् । तस्मादयमुत्पिसुरेव नश्यति । नश्वर एव तिष्ठति । स्थास्नुरेवोत्पद्यते । ततः प्रतिक्षणं त्रिलक्षणं-स्थितिरेवोत्पद्यते। विनाश एव तिष्ठति । उत्पत्तिरेव नश्यति । स्थितिरेव स्थास्यत्युत्पस्यते विनश्यति । विनाश एव स्थास्यति उत्पस्यते विनश्यति । उत्पत्तिरेव उत्पत्स्यते विनश्यति स्थास्यतीति न कुतश्चिद्वैपरम इति भावः । द्रवति द्रोष्यति अदुद्रवत् सत्तैव विशिष्यते द्रव्य-क्षेत्र-काल-भावात्मना । ततः परस्परव्यावृत्तस्वभावाननंतगुणपर्यायान् प्रतिक्षणमासादयंती सप्लव तिष्ठतीत्यादि योज्यं । तथा भेदानेव संद्रवंतीत्यादि प्रतिपत्तव्यं । अत्यंताभावापकृती न कचित्किचित् कथंचित वर्तते तथा सर्व सर्वत्र सर्वदोपलभ्येत । कथं पुनरभावप्रतिपत्तिः कथंचन स्यात । प्रत्यक्षस्य रूपादिस्वलक्षणविषयत्वात प्रमाणांतरस्यापि स्वकारणविषयत्वादंतशोऽनुपलब्धेः ।पर्युदासवृत्त्या वस्तुनि नियमादेकस्य कैवल्य इतरस्य वैकल्यमिति ब्रुवन्नपि देवानांप्रियो नावधारयति भावाभावप्रतिपत्तरभावाभ्युपगमात् । स्वपररूपादिभावाभावलक्षणत्वात् सर्वस्य निःश्रेणीपदबंधाभ्यामिव भावाभावस्वभावाभ्यां प्रतिबंधान किंचित्प्रमाण सर्वात्मना भावमभाव वा गृहीतु महति अनियमप्रसंगात । भावप्रमेयेकांतवादिनामभावप्रतिपत्तिरयुक्तिः अतो न भावप्रतिपत्तिः तेत्प्रमेयतोपसंख्यानं प्रमाणद्वयनियमं विघटयति |भावनैरात्म्यस्य प्रमाणाकारणत्वात् प्रतिबंधनियमपि माभूत् ॥११॥
अभावैकांतपक्षेऽपि भावापहववादिनां ।
बोधवाक्यं प्रमाणं न कन साधनदूषणम् ॥ १२ ॥ वृत्तिः अभाव इति असन्निति एकांतो मिथ्याभिप्रायोऽभावकांतः । स एव पक्षोऽभ्युपगमस्तसिन्नप्यभावैकांतपक्षेऽपि । न केवलं भावैकांते, किं त्वभावकांतेऽपि भावस्य सत्त्वस्य अपहवः अभावो निराकरणं तं वदितुं शीलं येषां ते तथाभूतास्तेषां भावापहववादिनाम् । बोधो ज्ञानं स्वार्थानुमानं, वाक्यं आगमः परार्थानुमानम् | बोधश्च वाक्यं च बोधवाक्यम् । प्रमीयतेऽनेनेति प्रमाणं स्वपरावभासकं ज्ञानं । न प्रतिषेधवचनम् । केन कतरेण । साधन च दूषणं च साधनदूषणं द्वंदैकवद्भावः । स्वपक्षसिद्धिः परपक्षनिराकरणं । भावापहववादिनामभावकांते बोधवाक्ययोरप्यभावस्ततः प्रमाणाभावात् केन साधन केन वा दूषणं क्रियत इति संबंधः ॥ १२ ।।
१ कुतश्चिदुपरमते पाठोऽयं लिखित. पुस्तके।
२ असदिति पाठो लिखितपुस्तके ।
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90