Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ अनुसंधान-२८ चिन्तां मुञ्च गृहाण पल्लवमिदं प्लक्षस्य शालस्य वा गङ्गा(गाङ्ग)स्याऽस्य जलस्य चन्द्रवपुषो गण्डूषये(मे)कं पिब । जीवन् द्रक्ष्यसि ताः पुनः करभ हे ! दासेरकेया भुवो रम्याः पीलुशमीकरीरबदरी: कूजत्कपोताकुलाः ॥४॥ रूक्षं वपुर्न च विलोचनहारिरूपं न श्रोत्रयोः सुखदमारटितं कदाचित् । इत्थं न साधु तव किञ्चिदिदं तु साधु तुल्ये रति करभ ! कण्टकिनि द्रुमे यत् ॥५॥ दुःप्रापमम्बु पवनः पु(प)रुषोऽतितापी (पः?) छायाभृतो न तरवः फलभाल(?) नम्राः । इत्थं सखे ! करभ ! वच्मि भवन्तमुच्चैः का सङ्गतिः खलु मरौ रमणीयतायाः ! ॥६॥ वक्रग्रीवमुदीक्षसे किमपरं बाष्पाम्बुपूर्णेक्षणः कः खेदः करभाऽधुना तृणलवैः सन्तर्पयैतद्वपुः । कान्तान्तःस्फुरदोष्टसम्पुटभुवो ये लीलयाऽऽन्दोलिता मुक्तास्तेन च नीलकन्दल[दल]श्यामाः शमीपल्लवाः ॥७॥ आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लङ्घयतां गेहिन्या(:) परितोषबाष्पतरलामासाद्य सद्यो मुखे । दत्वा पीलुशमीकरीरकवलान् खे(स्वे)नाञ्चलेनादरात् उन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥८॥ चर करभ ! यथेच्छं सन्ति शि(श)ष्पाण्यरण्ये बहुकुसुमसमृद्धाः पीलवश्च स्थलीषु । यदि गणयसि वाक्यं बन्धुवर्गस्य दूरात् परिहर करवीरं मृत्युरेवैष सद्यः ॥९।। करभाष्टकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110