Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
12
अनुसंधान-२८
नखनसिखुरैः क्षोणीपृष्टं न नर्दति सादरं प्रकृतिपरुषं प्रेष्यासन्नं न कुप्यति गोतरम् । वहति च धुरं धुर्यो धैर्यादनुद्धरकन्धरो जगति गुणिन(:) कार्यौदार्या[त्]परानतिशेरते ॥३॥ अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितोक्षणि । गुरुभरोद्धरणोद्धरकन्धुरं स्मरति सा[रथि]रन्यधुरन्धरम् ॥४॥ न ध्वानं कुरुते(?) न यासि विकृतिं नोच्चैर्वहस्याननं दोन्नोल्लिखसि क्षितिं खुरपुटैर्नाऽवज्ञया वीक्षसे । किन्तु त्वं वसुधातलैकधवलः स्कन्धाधिरूढे भरे तीव्राण्युच्चतटे विटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥५॥ गुरुर्नाऽयं भारः क्वचिदपि न पन्थाः स्थपुटितो न ते कुण्ठा वोक्तिर्वहनमपि नाऽङ्गेन विकलम् । इह द्रङ्गे नाऽन्यस्तव गुणसमानस्तदधुना धुनानेन स्कन्धं धवल ! किमु मुक्तः पथि भरः ? ॥६॥ यथा भग्नः पन्थाः परुषविषमग्रावगहने गलानां नाऽङ्गानि स्पृशति च यथा सारथिरयम् । यथा चैते दृप्ताः खवलितभुवो यान्ति वृषभास्तथा दूरीभूतः स खलु धवलो नूनमधुना ॥७॥ यस्यादौ व्रजमण्डनस्य बहुभिरु(यू)ढा न गुर्वी धुरा धौर्येयैः प्रगुणीकृतो न युगपत् स्कन्धे समस्तैरपि । तस्यैव श्लथकम्बलस्य धवलस्योत्थापने साम्प्रतं द्रङ्गेऽत्रैव जरावसादिततनो!ः पुण्यमुद्दष्यते ॥८॥ व्यूढा येन महाधुरा सुविषमे मार्गे सदैकाकिना सोढो येन कदाचिदेव न निजे णष्टेन्य (?)शण्डध्वनिः । आसीद् यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो ! धिक्कष्टं धवलस्य जातजरसो गोः पुण्यमुद्दष्यते ॥९॥
धवलाष्टकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110