Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 32
________________ July-2004 हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत् केवली ॥२॥ कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलोचनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वक्त्रे वस्त्रंमुखं विधाय ददतः श्रीधर्मलाभाशिषं वेषाडम्बरिणः स्वजीवनकृते विद्मो गतिं नाऽऽत्मनः ||३|| भिक्षा पुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे । आत्मारामतया तथा क्षणमपि प्रोज्झ्य प्रमादद्विषां (षं) स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥४॥ पाषण्डानि सहस्रशो न ( ज ) गृहिरे ग्रन्था भृशं पेठिरे लोभाज्ञानवशात् तपांसि बहुधा मूढैश्चिरं तेपिरे । क्वापि क्वापि कथञ्चनापि गुरुभिर्भूत्वा मुदो भेजिरे कर्मक्लेशविनाशसम्भवसुखान्यद्यापि नो लेभिरे ॥५॥ किं भावी नारकोऽहं किमुत बहुभवा (वी) दूरभव्यो नभव्यः ? किं वाऽहं कृष्णपक्षी किमचरणगुणस्थानकी कर्मदोषात् ? । वह्निज्वालेव शिक्षा व्रतमपि विषवत् खड्गधारा तपस्या स्वाध्यायः कर्णशूची यम इव विषमः संयमो यद्विभाति ॥६॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतुर्द्धांषधं शय्यापुस्तकपुस्तिकोपकरणं शिष्यं च कृष्या (? शिक्षा ) मपि । गृह्णीमः परकीयमेव नितरामाजन्ममृद्धा वयं यास्यामः कथमीदृशेन तपसा तेषां हहा ! निःक्रयम् ॥७॥ अन्तर्मत्सरिणां बहिः शमवतां प्रच्छन्नपापात्मनां नद्यम्भः कृतशुद्धिमद्यपवणिग्दुर्वासनाशालिनाम् । पाखण्डव्रतधारिणां बकदृशां मिथ्यादृशामीदृशां बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा ! का गतिः ? ॥८॥ १. ० लुञ्चनं । २. वस्त्रमथो । Jain Education International For Private & Personal Use Only 27 www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110