Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ अनुसंधान-२८ व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगः कूपान्तः पतितः करोति विधुरे किंवा विधौ पौरुषम् ॥५॥ शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमतां च समीक्ष्य दरिद्रतां विधिरहो ! बलवानिति मे मतिः ॥६॥ अलङ्कारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति यत्राऽमरगुरोविधौ वको मूर्ध्नि स्थितवति वयं के पुनरमी ? ॥७॥ सृजति० ॥८॥ पौष्यां पञ्च शराः शरासनमपि ज्याशून्यमिक्षोलता जेतव्यं जगतां त्रयं स च पुनर्जेताऽप्यनङ्गः किल । इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन् व्यापारः सुतरां विचारपदवीवन्ध्यो विधेर्वन्द्यताम् ॥९॥ भग्नाशस्य करण्डपिण्डित(त)नोग्लानेन्द्रियस्य क्षुधा कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्थिष्ठत दैवमेव हि नृणां वृद्धौ क्षये चाऽऽकुलम् ॥१०॥ दैवाष्टकम् ॥ (२०) श्रुत्वा श्रद्धाय सम्यक् शुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याऽथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत् प्रभवति समयस्तावदाकस्मिकीयं प्राप्ता मोहस्य धाटी तडिदिव विषमा हा ! हताः कुत्र यामः ? ||१|| एकेनाऽपि महाव्रतेन यतिनः खण्डेन भग्नेन वा दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110