Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
July 2004
किं ते नम्रतया० ॥६॥
न्यग्रोधे फलशालिनि स्फुटरसं किञ्चित् फलं पच्यते बीजाण्य ( न्य) ङ्करगोचरणि कतिचित् सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्करवरो बध्नाति तामुन्नति यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥७॥ पान्थाधार इति द्विजश्रिय इति श्लाघ्यस्तरूणामिति स्निग्धच्छाय इति प्रियो दृश इति स्त्रा (स्था ) नं गुणानामिति । यावत् तत्क्षणमाश्रयन्ति गुणिनः क्लान्तिच्छिदे पादपं तावत् कोटरनिर्गतैरहिगणैर्दूरं समुत्सारिताः ॥८॥
हंहो पान्थ ! किमाकुलं श्रमवशादत्युद्धतं धावसि प्रायेणाऽस (स्य) महाद्रुमस्य भवतो (ता) वार्ताऽपि नाऽऽकर्णिता । मूलं सिंहसमाकुलं तु शिखरे प्रोच्चण्डतुण्डाः खगा मध्ये कोटरभाजि भीषणफणाः पूत्कुर्वते पन्नगाः ॥ ९ ॥
भ्राम्यद्भृङ्गधराऽवनम्रकुसुमः श्चोतन्मधूद्रन्धिषु छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव । निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्तेनेदं नु फलन्तु यान्तु च परामभ्युन्नतिं पादपाः ॥१०॥
वृक्षाष्टकम् ॥
(१६)
बीजैरन्येहाधिक् योऽयं किं नाम विरम चान्यत्ते (न्ये ते) । हंहो चातकशब्दै- बप्पीहस्याष्टकं नाम ॥१॥
बीजैरङ्कुरितं० ॥२॥
अन्येऽपि सन्ति भुवि तामरसावतंसा हंसावलीवलयिनो जलसन्निवेशा: । कोsपि ग्रहो गुरुरयं हतचातकस्य पौरन्दरीं यदभिवाञ्छति वारिधाराम् ॥३॥
Jain Education International
For Private & Personal Use Only
21
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110