SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 12 अनुसंधान-२८ नखनसिखुरैः क्षोणीपृष्टं न नर्दति सादरं प्रकृतिपरुषं प्रेष्यासन्नं न कुप्यति गोतरम् । वहति च धुरं धुर्यो धैर्यादनुद्धरकन्धरो जगति गुणिन(:) कार्यौदार्या[त्]परानतिशेरते ॥३॥ अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितोक्षणि । गुरुभरोद्धरणोद्धरकन्धुरं स्मरति सा[रथि]रन्यधुरन्धरम् ॥४॥ न ध्वानं कुरुते(?) न यासि विकृतिं नोच्चैर्वहस्याननं दोन्नोल्लिखसि क्षितिं खुरपुटैर्नाऽवज्ञया वीक्षसे । किन्तु त्वं वसुधातलैकधवलः स्कन्धाधिरूढे भरे तीव्राण्युच्चतटे विटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥५॥ गुरुर्नाऽयं भारः क्वचिदपि न पन्थाः स्थपुटितो न ते कुण्ठा वोक्तिर्वहनमपि नाऽङ्गेन विकलम् । इह द्रङ्गे नाऽन्यस्तव गुणसमानस्तदधुना धुनानेन स्कन्धं धवल ! किमु मुक्तः पथि भरः ? ॥६॥ यथा भग्नः पन्थाः परुषविषमग्रावगहने गलानां नाऽङ्गानि स्पृशति च यथा सारथिरयम् । यथा चैते दृप्ताः खवलितभुवो यान्ति वृषभास्तथा दूरीभूतः स खलु धवलो नूनमधुना ॥७॥ यस्यादौ व्रजमण्डनस्य बहुभिरु(यू)ढा न गुर्वी धुरा धौर्येयैः प्रगुणीकृतो न युगपत् स्कन्धे समस्तैरपि । तस्यैव श्लथकम्बलस्य धवलस्योत्थापने साम्प्रतं द्रङ्गेऽत्रैव जरावसादिततनो!ः पुण्यमुद्दष्यते ॥८॥ व्यूढा येन महाधुरा सुविषमे मार्गे सदैकाकिना सोढो येन कदाचिदेव न निजे णष्टेन्य (?)शण्डध्वनिः । आसीद् यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो ! धिक्कष्टं धवलस्य जातजरसो गोः पुण्यमुद्दष्यते ॥९॥ धवलाष्टकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520528
Book TitleAnusandhan 2004 07 SrNo 28
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy