SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ July-2004 निद्राघूणितलोचनो मृगपतिर्यावद् गुहां सेवते तावत् स्वैरममी चरन्तु हरिणा: स्वच्छन्दसञ्चारिणः । उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो नादे श्रोत्रपथं गते हतधियां सन्त्येव दीर्घा दिशः ॥७॥ प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसां हेतुः । । सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ॥८॥ यथेष्टं चेष्टध्वं मदमलिनगण्डाः करटिनः ।। तटान्यद्रेर्मन्दं विकषत विषाणैश्च महथाः (महिषाः) ।। सरागं सारङ्गां ! सह सहचरीभिर्विचरताऽ- . प्रचारः सिंहानामिह न विधिना हन्त विहितः ॥९॥ वित्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः । इत्थं न किञ्चिदपि साधु मृगाधिपस्य, तेजस्तु तं स्फुरति यस्य जगद् वराकम् ॥१०॥ सामोपायनयः प्रपञ्चपटवः प्रायेण: ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् । विस्फूर्जद्विकटाटवीगजघटाकुम्भैकसंचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः ॥११॥ सिंहाष्टकम् ॥ मार्गे नखनसिचानसि नध्वानं गुरुर्यथात्र यस्यादौ । ऊ(व्यू)ढा येन सुधवलैर्गदितं धवलाष्टकं नाम ॥१॥ मार्गे कर्दमदुस्तरे जलभृते गर्ताशतैराकुले खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोत्थितां तर्जनीमीदृक्षे विषमे विहाय धवलं वोढुं भरः(रं) कः क्षमः ? ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520528
Book TitleAnusandhan 2004 07 SrNo 28
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy