Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 627
________________ ६२२ अनगारधर्मामृते आवश्यकमिदं धीरः सर्वकर्मनिषूदनम् । सम्यक कर्तुमसौ योग्यो नापरस्यास्ति योग्यता ॥ मन्दमतिसुखप्रतिपत्तये क्रमवदिति विशेषणं विवृण्वन्नाहप्रेप्सुः सिद्धिपथं समाधिमुपविश्यावेद्य पूज्यं क्रिया,मानम्यादिलयभ्रमत्रयशिरोनामं पठित्वा स्थितः । साम्यं त्यक्ततनुर्जिनान् समदृशः स्मृत्त्वावनम्य स्तवं, युक्त्वा साम्यवदुक्तभक्तिरुपविश्यालोचयेत् सर्वतः॥१२७॥ सिद्धिपथं स्वात्मोपलब्ध्युपायभूतं समाधि रत्नत्रयैकाग्रतां प्रेप्सुः प्राप्तुमिच्छुः संयतो देशसंयतो वा आलोचयेत् 'इच्छामि भत्ते चेइयभत्तिकाउस्सगो कओ तस्स आलोचेअं' इत्यादि प्रसिद्धनिगदमुच्चारयंस्तदर्थ मनसा विचिन्तयेत् । किं कृत्वा ? उपविश्य उपवेशनं कृत्वा । क्व ? सर्वतः सर्वासु विभक्तिषु । किं कृत्वा ? उपविश्य निविश्य आवेद्य च 'चैत्यभक्तिकायोत्सगं करोमि' इत्यादिरूपेण सप्रश्रयप्रणतिपूर्वकं विज्ञाप्य । कम् ? पूज्यं गुर्वादिकम् । काम् ? क्रियां कृतिकर्म । किंविशिष्टः ? स्थितः। किं कृत्वा ? आनम्य शरीरावनतिं कृत्वा । पुनरुद्भीभूतः सन्नित्यर्थः । किं कृत्वा ? पठित्वा निगद्य । किं तत् ? साम्यं सामायिकदण्डकम् । कथम् कृत्वा ? आदिलयभ्रमत्रयशिरोनामम् । आरम्भे समाप्तौ चावर्तत्रयानन्तरप्रयुक्तमेकं शिरोनमनं यत्रेत्यर्थः । आदिश्च लयश्चादिलयौ आरम्भसमाप्ती। भ्रमाणामावर्तानां त्रयं भ्रमत्रयम् । शिरसो नाम नमनं शिरोनामः । श्रमत्रयादनन्तरं प्रयुक्तः शिरोनामो भ्रमत्रयशिरोनामः। 'मयूरव्यंसकादित्वात् । समासः। आदिलययोर्धमत्रयशिरोनामो यत्र तदेवम्। क्रियाविशेषणमिदम् । पुनः किंविशिष्टः ? त्यक्ततनुरालम्बितकायोत्सर्गः । त्यक्ता निर्ममतया प्रतिपना तनुः शरीरं येनासौ त्यक्ततनुः । पुनरपि किंविशिष्टः ? उक्तभक्तिः पठितवन्दनाकल्पः । किं कृत्वा ? युक्त्वा प्रयुज्य । कम् ? स्तवं 'थोस्सामि' इत्यादिदण्डकम् । किंवत् ? साम्यवत् सामायिकदण्डकं यथा । आदिलयेत्यादिविधिनेत्यर्थः ! किं कृत्वा ? अवनम्य शरीरावनतिं कृत्वा । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698