Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
अनगारधर्मामृते—
प्रतिमायोगस्थितस्य मुनेः क्रियाविधिमाह -
लघीयसोपि प्रतिमायोगिनो योगिनः क्रियाम् । कुर्युः सर्वेपि सिद्धर्षिशान्तिभक्तिभिरादरात् ॥ ८२ ॥
६७६
कुर्युर्विदध्युः । के ? सर्वेपि श्रमणाः । काम् ? क्रियाम् । काभिः ? सिद्धर्षिशान्तिभक्तिभिः ः । कस्मात् ? आदरात् । कस्य ? योगिनो यतेः । किं विशिष्टस्य ? प्रतिमायोगिनो दिनं यावदभिसूर्यं कायोत्सर्गावस्थायिनः । किंविशिष्टस्यापि ? लघीयसोपि दीक्षया लघुतरस्यापि । उक्तं च
प्रतिमायोगिनः साधोः सिद्धानागारशान्तिभिः । विधीयते क्रियाकाण्डं सर्वसंधैः सुभक्तितः ॥
दीक्षाग्रहणञ्चनक्रियाविधिमाह
सिद्धयोगिबृहद्भक्तिपूर्वकं लिङ्गमर्प्यताम् । लुञ्चाख्यानाम्यपिच्छात्म क्षम्यतां सिद्धभक्तितः ॥ ८३ ॥
अतामारोप्यतां पुंसः । किं तत् ? लिङ्गम् । किंलक्षणम् ? लुञ्चाख्यानान्यपिच्छात्म । लुञ्चो लोचः । आख्या नामकरणम् नान्यं दिगम्बरत्वम् । पिच्छं बर्हम् । लुञ्चचाख्या च नाग्न्यं च पिच्छां च लुञ्चाख्यानान्यपिच्छम् । तदेवात्मा स्वरूपं यस्य तदेवम् । किंविशिष्टम् ? सियोगिवृहद्भक्तिपूर्वकम् । सिद्धबृहद्भक्तिर्योगिवृहद्भक्तिश्च पूर्व पूर्वकालभाविन्यो यत्र तदेवम् । तथा क्षम्यतां लिङ्गार्पणविधानं समाप्यताम् । कया ? सिद्धभक्तितः सिद्धभक्त्या ।
दीक्षादानोत्तर कर्तव्यं पद्ययुगलेनाह—
व्रतसमितीन्द्रियरोधाः पञ्च पृथक् क्षितिशयो रदाघर्षः । स्थितिसकृदशने लुञ्चावश्यकषङ्के विचेलताऽस्नानम् ॥ ८४ ॥ इत्यष्टाविंशतिं मूलगुणान् निक्षिप्य दीक्षिते । संक्षेपेण सशीलादीन् गणी कुर्यात्प्रतिक्रमम् ॥ ८५ ॥ युग्मम् |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698