Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 685
________________ ६८० अनगारधर्मामृते पुरुषे । केन ? व्रतेन । कथम् ? हि स्फुटम् । क इव केन क ? मुशलेन कणे कुण्डक इव । यथा शोध्यः। कोसौ ? कुण्डकोऽन्तर्वेष्टनमलः । केन ? मुशलेनायोग्रेण । क ? कणे कलमादिधान्यांशे । क सति ? गार्हस्थ्ये गृहस्थभावे । कीदृशे ? दलिते अपनीते । केन ? लिङ्गग्रहेण व्रताविष्करणचिह्नादानेन । केन कस्मिन्निव ? मृद्यन्त्रकेण तुष इव मृण्मययन्त्र. विशेषेण धान्यत्वचि यथा । भूमिशयनविधानमाहअनुत्तानोऽनवाङ् स्वप्याद्भूदेशेऽसंस्तृते स्वयम् । खमात्रे संस्तुतेऽल्पं वा तृणादिशयनेपि वा ॥ ९१ ॥ स्वप्याद् यतिर्दण्डवद्धनुर्वद्वा । एकपार्श्वन शयीतेत्यर्थः । क ? भूदेशे भूमिप्रदेशे । किंविशिष्टे ? असंस्तृते तृणाधनाच्छादिते । कथंभूतः ? अनुत्तानः । पुनः कथंभूतः ? अनवाङ् अनधोमुख, अन्यथा स्वमदर्शनरेतश्चयवनादिदोषाम्नायात् । वा अथवा अनुत्तानोऽनवाङ् भूदेशे स्वप्यात् । किंविशिष्टे ? संस्तृते । केन स्वयमात्मना । कियत् ? अल्पमीषत् । गृहस्थादियोग्यप्रच्छादनरहिते इत्यर्थः । पुनः किंविशिष्टे ? स्वमात्रे आत्मपरिमाणे । अथवाऽनुत्तानोऽनवाङ् स्वप्यात् । क ? तृणादिशयने आदि. शब्देन काष्ठशिलादिशयने । अत्रापि भूमिप्रदेशवदसंस्तृतेऽल्पसंस्तुते वा। उक्तं च पांसुअभूमिपएसे अप्पमसंथारिदम्हि पच्छण्णे । दंडद्धणुव्व सेजं खिदिसयणं एयपासेण ॥ स्थितिभोजनविधिकालावाहतिनोऽपास्याद्यन्तनाडीमध्येऽन्यद्यात् स्थितः सकृत् । मुहूर्तमेकं द्वौ त्रीन्वा वहस्तेनानपाश्रयः ॥ ९२ ॥ १-प्रासुकभूमिप्रदेशे अल्पमसंस्तारिते प्रच्छन्ने । दण्डक्द्धनुर्वत् शेयं क्षितिशयनमेकपार्थेन ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698