Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 694
________________ प्रशस्तिः ६८९ योर्हद्वाक्यरसं निबन्धरुचिरं शास्त्रं च धर्मामृतं, निर्माय न्यदधान्मुमुक्षुविदुषामानन्दसान्द्रे हृदि ॥ ११॥ सिद्ध्यकं सिद्धिः सिद्धिशब्दोङ्कश्चिद्रं सर्गप्रान्तवृत्तेषु यस्य तत् । निब. न्धोज्वलं स्वयंकृतनिबन्धनेन स्फुटप्रतिभासम् । अरीरचद् रचयति स्म । अर्हद्वाक्यरसं जिनागमनिर्यासभूतं निबन्धरुचिरं स्वयंकृतज्ञानदीपिकाख्यपझिकया रमणीयम् । धर्मामृतं धर्मामृताख्यम् । न्यदधात् स्थापयतिम । राजीमतीविप्रलम्भं नाम नेमीश्वरानुगम्। व्यधत्त खण्डकाव्यं यः स्वयंकृतनिबन्धनम् ॥ १२॥ आदेशापितुरध्यात्मरहस्यं नाम यो व्यधात्। शास्त्रं प्रसन्नगम्भीरं प्रियमारब्धयोगिनाम् ॥ १३॥ प्रसन्नगम्भीरं प्रसन्नं झगित्यर्थप्रतिपादनसमर्थम् । गम्भीरं शास्त्रान्तरसव्यपेक्षार्थम् । प्रसन्नं च तद्गम्भीरं च तत् प्रसन्नगम्भीरम् । आरब्धयोगिनां आरब्धो योगो येषामस्तीति त एवम् । यो मूलाराधनेष्टोपदेशादिषु निबन्धनम् । व्यधत्तामरकोषे च क्रियाकलापमुज्जगौ ॥ १४ ॥ आदिराराधनासारभूपालचतुर्विशतिस्तवनाद्यर्थः । उजगौ उत्कृष्टं कृत्वा गीतवान् । रौद्रटस्य व्यधात्काव्यालंकारस्य निबन्धनम् । सहस्रनामस्तवनं सनिबन्धं च योर्हताम् ॥ १५॥ रौद्रटस्य रुद्रटाचार्यकृतस्य । अर्हतामऽनन्तजिनानाम् । सनिबन्धं यश्च जिनयज्ञकल्पमरीरचत् । . त्रिषष्ठिस्मृतिशास्त्रं यो निबन्धालङ्कृतं व्यधात् ॥१६॥ सनिबन्धं स्वयंकृतेन जिनयज्ञकल्पदीपकाख्येन निबन्धेन सहितम् । जिनयज्ञकल्पं जिनयज्ञकल्पाख्यं जिनप्रतिष्टाशास्त्रमरीरचन्निर्मितवान् । त्रिषष्ठिशलाकापुरुषप्रवृत्तगोचरं त्रिषष्टिस्मृतिसंशं संक्षिप्तशास्त्रम् । निब. न्धालंकृतं स्वयंकृतनिबन्धनेन भूषितम् । योर्हन्महाभिषेका_विधि मोहतमोरविम् । चक्रे नित्यमहोद्योतं खानशास्त्रं जिनेशिनाम् ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 692 693 694 695 696 697 698