Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
६९०
अनगारधर्मामृते
नित्यमहोद्योतं नित्यमहोद्योताख्यम् । रत्नत्रयविधानस्य पूजामाहात्म्यवर्णकम् । रत्नत्रयविधानाख्यं शास्त्रं वितनुते स्म यः॥१८॥ आयुर्वेदविदामिष्टं व्यक्तुं वाग्भटसंहिताम् । अष्टाङ्गहृदयोद्योतं निबन्धमसृजञ्च यः ॥ १९ ॥ (स्पष्टम् )
सोहमाशाधरोऽकार्ष टीकामेतां मुनिप्रियाम् । स्वोपक्षधर्मामृतोक्तयतिधर्मप्रकाशिनीम् ॥ २० ॥ अकार्ष कृतवानहम् । स्वोपज्ञमात्मना प्रथममुपदिष्टम् । शब्दे चाथै च यत्किचिदत्रास्ति स्खलितं मम ।
छद्मस्थभावात् संशोध्य सूरयस्तत् पठन्त्विमाम् ॥ २१ ॥ स्खलितं दोषः । छमस्थभावात् आनृतज्ञानत्वात् । सूरयो धर्माचार्या विद्वांसो वा।
नलकच्छपुरे पौरपौरस्त्यः परमार्हतः। जिनयज्ञगुणौचित्यकृपादानपरायणः ॥२२॥ पौरपौरस्त्यः सागाराणामग्रणीः ।
खंडिल्यान्वयकल्याणमाणिक्यं विनयादिमान् । साधुः पापाभिधः श्रीमानासीत् पापपराङ्मुखः ॥२३॥ कल्याणं सुवर्णम् । माणिक्यं पद्मरागमणिः । विनयादिमान् प्रश्रयदाक्षिण्यपरोपकारकरणादिगुणयुक्तः ।
तत्पुत्रो बहुदेवोऽभूदाद्यः पितृभरक्षमः। द्वितीयः पद्मसिंहश्च पमालिंगितविग्रहः ॥२४॥ पद्मा लक्ष्मीः ।
बहुदेवात्मजाश्चासन् हरदेवः स्फुरहणः।
उदयी स्तम्भदेवश्च त्रयस्त्रैवर्गिकाताः ॥२५॥ (स्पष्टम् ) मुग्धबुद्धिप्रबोधार्थ महीचन्द्रेण साधुना। धर्मामृतस्य सागारधर्मटीकास्ति कारिता ॥ २६ ॥ (स्पष्टम्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 693 694 695 696 697 698