Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
६८८
अनगारधर्मामृते—
परिमलः परिमलो लक्षणावृत्या बलम् । बाहुबलातिशय इत्यर्थः । ओज उत्साहोन्तःसारो वा । जिनप्रमितिवाक्शास्त्रे जैनेन्द्रं प्रमाणशास्त्रं जैनेन्द्रव्याकरणं च । महावीरतों वादिराजपण्डित श्रीमद्धरसेनशिष्यात्पण्डितमहावीरात् ।
आशाधरत्वं मयि विद्धि सिद्धं निसर्गसौंदर्यमजर्यमार्य | सरस्वतीपुत्रतया यदेतदर्थे परं वाच्यमयं प्रपञ्चः ॥ ६ ॥ अजयं मैत्रीम् । सरस्वतीपुत्रतया निसर्गसौदर्यं प्रकृत्या सहोदरत्वम् । इत्युपश्लोकितो विद्वद्विहणेन कवीशिना । श्रीविन्ध्यभूपतिमहासान्धिविग्रहिकेण यः ॥ ७ ॥
विन्ध्यभूपतिर्विजयवर्मनाम मालवा
उपश्लोकितः श्लोकेनोपस्तुतः
धिपतिः ।
।
श्रीमदर्जुन भूपालराज्ये श्रावकसंकुले | जिनधर्मोदयार्थ यो नलकच्छपुरेऽवसत् ॥ ८ ॥ यो द्राग्व्याकरणाब्धिपारमनयच्छुश्रूषमाणान्न कानू, षट्तकपरमास्त्रमाप्य नयतः प्रत्यर्थिनः केऽक्षिपन् । चेरुः केऽस्खलितं न येन जिनवाग्दीपं पथि ग्राहिताः, पीत्वा काव्यसुधां यतश्च रसिकेष्वापुः प्रतिष्ठां न के ॥ ९ ॥ कान् ? पंडित देवचन्द्रादीन् । प्रत्यर्थिनः प्रतिवादिनः । के वादीन्द्र विशालकीर्त्यादयः । अक्षिपन् जयन्ति स्म । चेरुः प्रवृत्ताः । के भट्टारक देवविनयचन्द्रादयः । अस्खलितं निरतीचारम् । जिनवागू अर्हत्प्रवचनम् । पथि मोक्षमार्गे । ग्राहिताः स्वीकारिताः । रसिकेषु सहृदयविदग्धेषु मध्ये । आपुः प्राप्ताः । के बालसरस्वती महाकविमदनादयः ।
स्याद्वादविद्याविशदप्रसादः प्रमेयरत्नाकरनामधेयः । तर्कप्रबन्ध निरवद्यपद्यपीयूषपूरो वहति स्म यस्मात् ||१०||
स्पष्टम् ।
सिद्ध्यङ्कं भरतेश्वराभ्युदय सत्काव्यं निबन्धोज्ज्वलं, यस्त्रैविद्यकवीन्द्र मोदनसहं स्वश्रेयसे ऽरीरचत् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 691 692 693 694 695 696 697 698