Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
.. प्रशस्तिः
६९१
तस्यैव यतिधर्मस्य कुशाग्रीयधियामपि।
सुदुर्बोधस्य टीकार्य प्रसादः क्रियतामिति ॥ २७ ॥ तस्यैव धर्मामृतस्यैव । कुशाग्रीयधियां कुशाग्रमिव दर्भसूचीव तीक्ष्ण धीर्येषां त एवम् निपुणबुद्धीनामित्यर्थः । प्रसादो युष्माभिरिति शेषः ।
हरदेवेन विज्ञप्तो धणचन्द्रोपरोधतः । पंडिताशाधरश्चक्रे टीका क्षोदक्षमामिमाम् ॥ २८ ॥ क्षोदक्षमा विचारसहाम् । इमां धर्मामृतयतिधर्मगोचराम् । विद्वद्भिर्भव्यकुमुदचन्द्रिकेत्याख्ययोदिता। द्विष्टाप्याकल्पमेषास्तां चिन्त्यमाना मुमुक्षुभिः ॥ २९ ॥ भव्यकुमुदचन्द्रिका भव्यकुमुदानामासनभव्यकैरवाणां चन्द्रिकेव आह्वादहेतुत्वात् । उदिता उक्ता। द्विष्टापि द्वयोरनगारसागारधर्मयोस्तिष्ठन्ती। आकल्पं कल्पावधि । आस्तां तिष्ठतु ।
प्रमारवंशवा(न्दुदेवपालनृपात्मजे । श्रीमजैतुगिदेवेसिस्थानाऽवन्तीनऽवत्यलम् ॥ ३०॥ वार्धिः समुद्रः । असिस्थाम्ना खङ्गबलेन । अवन्तीन मालवान् । अवति पालयति सति । अलं पर्याप्तम् ।
नलकच्छपुरे श्रीमन्नेमिचैत्यालयेऽसिधत् । विक्रमाब्दशतेष्वेषा त्रयोदशसु कार्तिके ॥ ३१ ॥ असिधद् निष्पना । त्रयोदशसु विक्रमादित्यस्य वर्षशतेषु त्रयोदशसु वर्तमानेष्वित्यर्थः । संवत्सर १३०० वर्षे कार्तिकसुदिपञ्चम्यां सोमदिने शुभलमे।
अनुष्टुप्छन्दसामस्या:प्रमाणं द्विशताधिकैः।
सहजैादशमितैर्विज्ञेयमनुमानतः॥ ३२॥ तद्यथा। प्रथमाध्याये १६०० । द्वितीये १४२७ । तृतीये ३१८ चतुर्थे २६१५ । पञ्चमे ६०९ । षष्ठे १७५५ । सप्तमे १२५६ । अष्टमे १५४५ । नवमे १०७५ । एवमनुष्टप्छन्दसामस्याष्टीकायाः परिमाणं १२२०० अलमति. प्रसङ्गेन ।
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org
Loading... Page Navigation 1 ... 694 695 696 697 698