Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 697
________________ ६९२ अनगारधर्मामृते शांतिः शं तनुतां समस्तजगतः संगच्छतां धार्मिकैः, श्रेयाश्रीः परिवर्धतां नयधुरा धुयर्यो धरित्रीपतिः। सद्विद्यारसमुनिरन्तु कवयो नामाप्यघस्यास्तु मा, प्राथ्ये वा कियदेक एव शिवकृद्धर्मों जयत्वहताम् ॥ ३३॥ शान्तिः पोडशोर्हन् शं शर्म तनुतां स्फीतीकरोतु । अथवा,"सुखतद्धेतुसंप्राप्तिर्दुःखतद्धेतुवारणम् । तद्धेतुहेतवश्चान्यदपीटक् शान्तिरिष्यते ॥" इत्येवं लक्षणा शान्तिः संतनुतां समन्तात् स्फीतीभवतु । संगच्छतां संयुज्यताम् । धार्मिकैः धर्म चरद्भिः प्राणिभिः सह श्रेय:श्रीरऽभ्युदयनिःश्रेयससंपत् । नयः षाडुण्यप्रयोगः । उद्विरन्तु उदीरयन्तु । नामापि पापादिसंज्ञापि, किं पुनः पापादिस्वरूपम् । पापादिकं समूलं प्रलीयतामित्यर्थः । अघस्य पापस्य दुःखस्य च । जयतु सर्वोत्कर्षेण वर्तताम् । इति भद्रम् । इत्याशाधरविरचिता भव्यात्माहरदेवानुमता धर्मामृतयतिधर्मटीका परिसमाप्ता ॥ समाप्तोऽयं अन्य EPAPER Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 695 696 697 698