Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 692
________________ अथ प्रशस्तिः । श्रीमानस्ति सपादलक्षविषयः शाकम्भरीभूषण,स्तत्र श्रीरतिधाममण्डलकरं नामास्ति दुर्ग महत् । श्रीरत्यामुदपादि तत्र विमलव्याघ्रेरवालान्वया, च्छ्रीसल्लक्षणतो जिनेन्द्र समयश्रद्धालुराशाधरः ॥ १ ॥ श्रीमान् त्रिवर्गसंपत्तियुक्तः । शाकम्भरी लवणाकर विशेषः । श्रीरतिधाम लक्ष्मीक्रीडागृहम् । श्रीरत्याम्, रत्नीति कविमातुः संज्ञा । उपादि उत्पन्नः॥ सरस्वत्यामिवात्मानं सरस्वत्यामजीजनद् । यः पुत्रं छाहडं गुण्यं रञ्जितार्जुनभूपतिम् ॥ २ ॥ सरस्वत्यां वाग्देवतायाम् । सरस्वत्यां सरस्वतीसंज्ञितायां स्वभार्यायां गुण्यं गुणातिशययुक्तम् । अर्जुनभूपतिरर्जुनदेवो नाम मालवाधिपतिः । व्याघ्रेरवालवरवंशसरोज हंसः काव्यामृतौ घरसपानसुतृप्तगात्रः । सल्लक्षणस्य तनयो नयविश्वचक्षुराशाघरो विजयतां कलिकालिदासः ॥ ३ ॥ स्पष्टम् । इत्युदयसेनमुनिना कविसुहृदा योऽभिनन्दितः प्रीत्या । प्रज्ञापुओसीति च योभिहितो मदनकीर्तियतिपतिना ॥ ४ ॥ स्पष्टम् । म्लेच्छेशेन सपादलक्षविषये व्याप्ते सुवृत्तक्षति - त्रासाद्विन्ध्यनरेन्द्रदोः परिमलस्फूर्जत्रिवर्गौजसि । प्राप्तो मालवमण्डले बहुपरीवारः पुरीमावसन् । यो धाराम पठज्जिनप्रमितिवाक्शास्त्रे महावीरतः ॥ ५ ॥ म्लेच्छेशेन साहिबुद्दीन तुरुष्कराजेन । सुवृत्तक्षतिः सदाचारनाशः । दो १ साहबुद्दीननाम्ना तुर्क इति ख्यातदेशनिवासिना । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698